पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५०) सेन कः लाभः । लामस्थाने हानिः सम्भवति । यत्र विशेषनाम- वाचकसंज्ञानां समसनं स्यात् तत्र समासे सन्धिः वैकल्पिकः तिष्ठेत् । अनेन महान् लाभः भवितुं अर्हति । अत्र अस्माकं निवेदनस्य सुस्पष्टीकरणाय एक उदाहरणं भूयः दीयते । पूर्व कथित अस्माभिः यत् 'माननीय, आत्माराम, आनन्द- स्वरूप, ईश्वरीप्रसाद जनानां' शब्दानां समसनं क्रियेत चेत् तदा एतेषां इदं रूपं भविष्यति । माननीयात्मारामानन्द स्वरूपेश्वरीप्रसादजनानाम् एवमेव यदि विशेषस्थानवाचक संज्ञानां समासः क्रियेत यथा " लखनऊ, आगरा, औन्ध, उन्नावनगराणाम् " तदा इदं रूपं भविष्यति । " लखनवागरौन्धोन्नावनगराणाम् " "9 C व्याख्या - प्रथमसमासे पुरुनामानि पठने न आगच्छन्ति । इदं प्रतीयते यत् "माननीयात्मा+रामानन्द+स्वरूपेश्वरी+प्रसाद- जनानाम् " समसनं क्रियते । इमानि नामानि विविधविविध. प्रकारे पठने आगन्तुं शक्नुवन्ति । कदाचित् इमानि नामानि पठने उच्चारणे वा आगच्छन्तु, परं "लखनऊ, आगरा, औन्ध, उन्नावनगराणाम् " नामानि तु कदापि पठने, उच्चारणे, अव- ' योधने वा नै आगच्छन्ति । कश्चित् अपि पुरुषः इदं तथ्यं ज्ञातुं शक्नोति । अत एव अयं नियमः अवश्यमेव कार्य्यः यंत् यत्र समासे विशेषनामवाचक संज्ञानां समसनं स्यात् तत्र नियम- रूपेण सन्धिः न त्रियेंत अर्थात् सन्धिः कदापि नं क्रियेत । यत्र सन्धिः न क्रियते तत्र समासः द्वित्रिशन्देभ्यः अधिकंशदानां अपि भवितुं अर्हति । अन्यस्थलेषु यत्र सन्धिः कियेत तत्र केवलं द्वित्रिशब्दानां समासः भवेत् । अयं नियमः भवतु । -