पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४९) चार्थ: चतुर्विधः भवति-समुच्चयः, अन्वाचयः, इतरेतरयोगः, समाद्दारः । तत्र समुच्चये अन्वाचये च असामर्थ्यात् समासः न भवति । इतरेतरयोगे समाहारे च समासः भवति । तत्र इतरेतरयोगस्य उदाहरणम् - शिवकेशवौ, शिवः च केशवः च शत विग्रहः । समाहारस्य उदाहरणम्- पाणिपादम, पाण्योः पादयोः व समाहारः इति विग्रहः । - समाहारे नपुंसक एकवचनान्त च तिष्ठति । इयत्प्रकारा समासाः भवन्ति । एतेषां विषये विचारणीय विद्वद्भिः यव कियत्समासाः आवश्यका, कियत्समासाः त्याज्या. परं समास इच्छाधीन विषयः । तत्क्रियेत न था। अत एव क्लिष्टसमासाः न कार्य्याः । ये समासाः सरला. स्युः केवलं ते व्यवहरणीया | · संस्कृतव्याकरणानुसारं समासकरणे प्रातिपदिकेषु पदत्थं आ- गच्छति अर्थात् समासाः पदानि जायन्ते । पदेषु व्याकरणानुसारं एव सन्धिः नित्यः भवति । अत एव समासविपये इदं सशोधनं आवश्यकं यत् अधिकाधिक द्वित्रिशब्दानां समास भवेत् । यद्यपि द्वन्द्वसमासे बहुव्रीहिसमासे द्वित्रिशब्देभ्य अधिकशब्दानां अपि समसन भवितु अईति, परं इच्छाधीनत्वात् तत्र अपि क्रियेत न वा। अस्यां दशायां अयं नियम कायंः यत् द्वित्रिशब्दानां अधि- कादधिकं समासः क्रियेत द्वितीयः नियमः अयं कार्यः यत् विशेषनामवाचकसंज्ञानां यत्र समासे समसनं स्यात् तत्र सन्धिः कदापि न क्रियेत । पूर्व उदाहरणानि दत्तानि अस्माभिः येन सु- स्पष्टं भवितुं अर्हति यद तत्र सन्धिः धारानथंकरः | समास पढ़ने न आगच्छति न तस्य शुद्धोधारणं भवितुं भर्हति । इंडशेन समा