पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४८) - व्याख्या - द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा सम- स्यते सः तत्पुरुषसंज्ञः स्यात् । उदाहरणम्- कृष्णश्रितः इत्यादि । कृष्णं श्रितः इति विग्रहः । अस्मिन् समासे सर्वैः कारकैः सह सुवन्तस्य समासः भवति । (४) कर्मधारयसमासः अनेन सूत्रेण भवति । विशेषणं विशेष्येण वहुलम् ” २ | १ | ५७ (सू. सं. १००७) व्याख्या विशेषणं समानाधिकरणेन विशेष्येण बहुलं समस्यते । उदाहरणम्--कृष्णसर्पः, कृष्णः च असौ सर्पः इति विग्रहः । (५) द्विगुसमासः अनेन सूत्रेण भवति । तद्धितार्थोत्तरपदसमाहारे च " २ | १५ | १ (सू. सं. ९९८ ) व्याख्या - तद्धितार्थविपये उत्तरपदे च परतः समाहारे च वाच्ये दिसंख्ये समस्यते । - उदाहरणम्-- पञ्चगवम्, पञ्चानां गवां समाहारः इति विग्रहः। अस्मिन् समामे नपुंसकं एकवचनान्तं च तिष्ठति । (६) बहुचीहिसमासः अनेन सूत्रेण भवति । << अनेकमन्यपदार्थे " १ | १ | १४ ( स्. सं. १०३५ ) व्याख्या अनेकं प्रथमान्तं अन्य पदस्य अर्थे वर्त्तमानं या सम- स्यते म. बहुमोदिसंशः स्यात् । उदाहरणम्- पीताम्बरः पीतं अम्बरं यस्य इति विग्रहः । (७) समाः अनेन सूत्रण भवति । " चाथै द्वन्दः " २२२२०९ (सू. सं. २०५५) व्याग्ग्या- अनेकं सुरन्तं चार्थे वर्तमानं या समस्यते सः इन्द्रः मंशः न्यात ।