पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • (१४७)

5 निश्चितं मतं तु इदं अस्ति यत् यत्र समासे विशेषनामसंज्ञानां समसनं स्यात् तत्र नियमरूपेण सन्धिः न भवेत् अर्थात् सन्धिः कदापिन क्रियेत । अनेन यथेच्छ सारल्यं आयास्यति तथा संस्कृत भाषा सुबोधत्वात् शीघ्रातिशीघ्रं स्वत एव राष्ट्रभाषा भवि प्यति । प्रचलितरूपे तु संस्कृतं कदापि राष्ट्रभाषा भवितुं न बर्हति दुर्योध त्वात् काठिन्यकारणात् । अत एव समासे पूर्वोकसंशोधनं नितान्तं आवश्यकम् । समासः । समासः पञ्चधा । स च विशेषसंज्ञाभिः राहतः केवलसमासः प्रथमः । प्रायेण पूर्वपदार्थप्रधानः अव्ययभावः द्वितीयः । प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः तृतीय। अस्य भेदः कर्मधारयः, तस्यभेदः द्विगुः । प्रायेण अन्य पदार्थप्रधानः बहुमाहिः चतुर्थः । प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः । ★ - ( १ ) तत्र प्रथमः केवलसमासः अनेन सूत्रेण भवति, सहसुपा " २।१ । १ ( सूत्रसंख्या ९६५) व्याख्या - सुवन्तः सुयन्तेन सह या समस्यते उदाहरणम् - भूतपूर्वः । अस्य लौकिकविग्रहः पूर्व मूतः इति । (२) अव्ययीभावसमासः अनेन सूत्रेण भवति । " अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्त- वचनेषु " २ | १ | ६ (स्.सं. ९६८) व्याख्या- विभस्त्यर्थादिषु वर्त्तमानं अव्ययं सुवन्तेन सह नित्यं समस्यते सः अव्ययीभावसंशः स्यात् । उदाहरणम्-अधिहारे । (३) तत्पुरुषसमासः अनेन सूत्रेण भवति । " द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापश्चैः " २११।२४ (सू.सं. ९८५) -