पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 कृष्ण यथेच्छं सारल्यं आगमिष्यति । अद्य व्याकरणे 'राम इत्यादिशब्दानां (विशेषनामवाचकसंज्ञानाम् ) सर्वासु विभक्तिषु सर्वाणि रूपाणि दीयन्ते । इदं सर्वं व्यर्थ एव । अनेन सह इदं अपि आवश्यकं अस्ति यत् सर्वासां संज्ञानां विभाजनं क्रियेत यथा इमाः विशेषनामवाचकसंज्ञाः, इमाः ज्ञातिवाचकसंज्ञाः इमाः भाववाचक- संज्ञाः इत्यादयः । अनेने कार्येण व्याकरणे सारल्यं सुबोधत्वं च आगमिष्यति । (२) द्वितीयः नियमः अयं कार्यः यत् विशेषनाम वाचक संज्ञानां यत्र समासः क्रियेत तत्र ताः विशेषनामवाचकसंज्ञाः स्वरूपे निष्ठन्तु । तासु सन्धिः न क्रियेत । इदं संशोधनं नितान्तं आवश्यकं अस्ति । एतेषां नाम्नां समासः अनेन प्रकारेण तिष्ठेत् । " हिन्दी - फारसी - उर्दू-अंगरेजी-अर्ची-भाषाणाम् " सन्धि- करणे घोरानर्थः जायते । सन्धिकार्य बुद्धिपूर्वकं करणीयं एव । सन्धिः भाषासारल्याय सुवोधाय च विद्यते, नतु भाषासन्धेः कृते, येन भाषात्वं नष्टं स्यात् । अद्य बुद्धिपूर्वकं तथा सम्यक् विचार्ग्य कार्य्यं न भवति । अद्य यत् किञ्चित् व्याकरणेषु विद्यते तत्सर्व एव ऋषि-मुनि-प्रणीतं मन्यते । इदं न विचार्यते विद्वद्भिः यत् अद्य तेषां व्याकरणग्रन्थानां बहुभागः अनावश्यकः भवितुं अर्हति । वार्तिकेषु अनर्गलवार्ताः भवितुं अर्हन्ति याः प्राचीन समये उपयोगिन्यः स्युः परं अद्य तासां कश्चित् अपि लाभः उपयोगः वा न अस्ति । एकं अन्यं अपि कार्ये भवितुं अर्हति । यद्यपि वर्तमान व्याकरण- नियमानुसारं सन्धिः समासे नित्यः भवति, तथापि भाषाहिताय नियमशैथिल्यं भवितु अर्हति । न्यूनातिन्यूनं समासे सन्धिः वैकल्पिकः स्यात् यत्र विशेषनामवाचकसंज्ञाः प्रातिपदिकरूपत्वेन तिष्ठन्तु । अनेन भाषासौविध्यं सारल्यं च आगमिप्यति । अस्माक