पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४४) “हिन्दीफारस्युद्वेगरेज्यर्थीभाषाणाम्" कश्चित् अपि पुरुषः पण्डितः बालकः वा अस्य समासस्य उच्चारणं कर्त्तु न शक्नोति । अयं समासः स्वयमेव एकः जटिलः प्रश्नः जायते । अन्यौ द्वौ ममासौ अपि पठने उच्चारणे च न आगच्छतः । अस्यां अवस्थायां द्वौ नियमौ कार्यो । तौ इमौ स्तः - दौ नियमौ । , (१) विशेषनामवाचकसंज्ञाः यथासाध्यं स्वरूपे तिष्ठन्तु । यथा ' रामलाल' एकस्य विशेष-पुरुषस्य नाम विद्यते । इदं सत्यं अस्ति यत् ' रामलाल' कस्यचित् अपि पुरुषस्य नाम भवितुं अर्हति, परं अस्यां अवस्थायां अपि तत् नाम विशेषपुरुप- स्य भविष्यति । अस्माक निवेदनस्य अयं आशयः यत् 'रामलाल' नाम जातिवाचक संज्ञा भवितुं न अर्हति, न कदापि भविष्यति । 'मनुष्य' शब्द' जातिवाचकः भवितुं अर्हति । मनुष्याणां एका जाति विद्यते । मनुष्यजातेः कश्चित् अपि सदस्यः' मनुष्यः ' इति शब्देन कथयितुं शक्यते । विशेषपुरुषस्य यस्य 'रामलाल' इति नाम भवेत् तस्य द्विवचनं बहुवचनं भवितुं न अर्हति । इदं विशेष स्थानवाचक- संज्ञानां विषये अपि सत्यं जायते यथा 'आगरा, लखनऊ, उन्नाच, इत्यादयः' एवमेव ' हिन्दीभाषा, गुजरातीभाषा, आंग्लभाषा इत्यादय' । विशेषनामवाचकसंज्ञासु विशेषस्थानवाचकसंज्ञाः गणिताः भवन्ति, एवमेव 'आंग्लभाषा' इत्यादि शब्दाः । अतएव इदं सर्व सामान्यत ' विशेषनामवाचकसंजा ' इति नाम्नः कथायप्यते विशेषपुरुषः, विशेषस्थान, विशेषभ पेत्यादिकं वा किं न भवेत् । इद निवेदितं अस्माभिः यत् विशेषनामनाचक संज्ञानां केवल एकवचनं भवितुं अर्हति । अव सर्वेषु कारकपु विशेषनाम वाचकसंझानां केवलं एकवचने एवं रूप दयम्, यथा-- १