पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४२) एवमेव 'फारसी' ' उर्दू ' 'अंगरेजी' तथा 'अर्थी' अन्यासां विशेष- भाषाणां नाम अस्ति । एताः सर्वाः विशेषनामवाचक- संज्ञाः, न तु जातिवाचकसंज्ञाः । वस्तुतः विशेष- नामानि अव्ययरूपाणि भवन्ति । संसारस्य अन्यासु भाषासु विशेषनामवाचकसंशाः ( विशेषव्यक्तिवाचकसंज्ञाः, विशेष- स्थानवाचकसंज्ञाः अर्थात् विशेषनामवाचकसंज्ञाः स्युः, यथा रामकृष्ण, आगरा, हिन्दी इत्यादयः क्रमानुसारम् ) विकारं विरूपतां वा न प्राप्नुवन्ति । ताः संज्ञाः सर्वाः सरलाः अपि भवन्ति । समासः तु प्राय तासु अपि क्रियते, परं न एतादृशः येन काठिन्यं भागच्छेत् । तासु सर्वासु भापासु विशेषनाम- वाचकसंज्ञाः पृथक् पृथक् सन्तित | तासां सम्मेलनं समसनं, संक्षेपः वा एतादृशः न जायते येन तासां पठनपाठनं उच्चारणं वा न भवेत् । अस्मिन् पुस्तके एतद्वधि अन्यस्याः भाषायाः उदाहरण न दत्त अस्माभिः परं सुस्पष्टीकरणाय इदानीं दीयते । हिन्द्यां कथयिष्यते - "हिन्दी - फारसी- उर्दू- अंगरेजी- अर्थी भाषाओं को मैंने पढा" - आंग्लभापायां इदं कथयिष्यते- " Hindi, Persian, Urdu, English, Arabic langua- ges read by me हिन्दीमापायां एवमेव आंग्लभाषायां अपि समासः विद्यते अर्थात् समसनं क्रियते । हिन्द्यां अयं समासः अस्ति-