पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४०) वाचकशब्देषु विसर्गस्य प्राप्तिः तु भवत् संस्कृतव्याकरणानुसारं परं लोपः मन्येत, यथा सन्धि-नियम-वलेन स्थाने स्थाने अवलोक्यते । 'रामलालः गच्छति ' अथवा ' रामलालो गच्छति । अस्मिन् स्थाने 'विसर्गादर्शनम् ' सूत्र घलेन 'रामलाल गच्छति' कथ्येत । 'विसर्गादर्शनम्' सूत्र एतादृशं अधिकारसूत्रं व्यापकसूत्रं वा मन्येत यत् सर्वत्र सर्वासु दशासु वा लगेत् । अनेन कः लाभः भविष्यति ? लाभः तु अयं भविष्यति यत् नामानि व्यक्तिस्थान- वाचकानि स्वरूपे स्थास्यन्ति । अयं सुधार आवश्यकः येन संस्कृतं अन्यभाषावत् भवेत् । अनेन सर्वाः भाषा: विशेषतया प्रान्तीयभाषाः (संस्कृतभ्रंशरूपाः प्रभाविनाः वा ) संस्कृते विलीनाः भविष्यन्ति । अस्यां दशायां केवल संस्कृतं अवशिष्टं स्थास्यति । तदा संस्कृतस्य राष्ट्रमापात्वं अन्ताराष्ट्रियभाषात्वं स्वतएव सिद्धम्। संस्कृत विश्वभाषा भवेत् इदं अस्माकं उद्देश्यम् | अस्माकं अय आशयः यत् येन प्रकारेण व्यक्तिस्थानवाचक- संज्ञाः स्वरूपे तिष्ठेयुः तत्सम्वन्धिनियमः निर्मापणीयः । एतेषु विशेषव्यक्ति स्थानवाचकशब्देषु सन्धिः कदापि न कार्यः । समासे अपि अयं नियमः लग्नः तिष्ठेत् येन एतेषु शब्देषु विरूपता न आगच्छेत् । अद्य इदं न क्रियते । फलं इदं भवति यत् व्यक्तेः स्थानस्य वा नाम अपि सुस्पष्टं न भवति, भ्रम उत्पन्नः ^ अनेन कथं कार्य चलिष्यति ? समासेषु तु महान् उत्पद्यते यथा यदि हिन्दी, फारसी, उर्दू, अंगरेजी, अर्थी, इति भाषाणां समासः कियेत तदा तत् अनेन प्रकारेण भविष्यति' अर्थात् "हिन्दीफारस्युर्डेगरेज्यर्थी भाषाणाम् ” । अयं समासः कश्चित अपि पुरुष दृष्टिमात्रेण ज्ञातुं न शक्नोति । अन्य समासस्य उच्चारणमपि भवितुं न अर्हति । वालकानां का कथा कश्चित् न