पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३९) 'प्रातिपदिकम्' इति कथ्यते । अनन्तरं 'सु' आदि प्रत्ययाः प्रातिपदिकेषु दीयन्ते येन प्रातिपदिकानि पदचाच्यानि स्युः | भाषा- विविधपदानां समूहः। अन्यासु भाषासु इदं न अवलोफयते । तत्र तु शब्दाः प्रथमावस्थायां अर्थात् प्रातिपदिकरूपत्वेन तिष्ठन्ति, अनन्तर कारकेषु विविधविह्नानि पृथक् पृथक् शब्दाङ्गत्वेन वा दीयन्ते । सस्कृतभाषायां तथा अन्यासु भाषासु अयं मुख्यभेदः । यद्यपि सर्वाः भाषा: वैदिकमापातः निस्सृताः । वैदिकभाषा अर्थान् वेदभाषा मूलस्रोतः सर्वासाम् / लौकिक- संस्कृतं अपि वेदमापातः प्रायः स्वरूपे निस्सारितम्, अन्याः भाषाः भ्रंशरूपत्वेन निस्सृताः | भेद मुस्पष्टः संस्कृतस्य प्रथमं ● व्याकरणं रचितम् अनन्तरं सांस्कृताभाषा प्रचालिता। अन्याः भाषा: प्रथमं प्रचलिताः, अनन्तर तामां व्याकरणं निर्मितम् । अतएव लौकिक संस्कृते 'कृत्रिमता' विद्यते एव । इय 'कृत्रिमता' अस्वाभाविकता वा आवश्यक संशोधनैः व्यवहारसिद्ध- $ प्रयोगः या दूरीकरणीया । यथा अन्यासु भाषासु क्रियते तत् एव संस्कृते क्रियेत येन संस्कृतभवनं सुदृढं स्यात् । वयं आमूल- चूलपरिवर्त्तन न कामयामहे येन सर्वस्वं नष्ट स्यात् । वयं तु संस्कृत साहित्यस्य ऋषि-महर्षि-प्रदत्त-ज्ञान भाण्डारस्य, अध्यात्म- ज्ञानस्य वेदज्ञानस्य संरक्षणाय एवमेव संस्कृतराष्ट्रमाणत्वाय, अन्ताराष्ट्रिय मापात्याय वा संशोधनानि कामयामहे, येन अस्माकं संस्कृतं प्रगतिशोलभाषासु जोवितभाषासु या प्रथम स्थानं प्राप्नुयात्। तासां सर्वासां भाषाणां शिरोमणिः शिरोमुकुटं वा स्यात् । अतपव विशेषव्यक्तिवाचकशन्दानां विषये अयं नियमः कार्यः, संशोधनं अङ्गीकरणीय वा यत्ते स्वरूपे तिष्ठन्तु । एकस्प नवीनसूत्रस्य यथा' विसर्गादर्शनम् ' घलेन विशेषव्यक्तिम्यान-