पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३६) विविधकारकेषु विविधानि रूपाणि भवन्ति । यानि शीघ्रतया स्मृतिपये न आगच्छन्ति । काठिन्यकारणाव द्विवचनस्य प्रयोगः अपि न क्रियते जनैः । इदं अपि सिद्धं कृतं अस्माभिः यत् अयं सिद्धान्तः व्याकरणसम्मतः विद्यते यथा- “अस्मदो द्वयोश्च "। ११ २०५९ ( एकत्वे द्वित्वे च विवक्षिते अस्मदः बहुवचनं वा स्यात् । वयं ब्रूमः, पक्षे अहं ब्रवीमि, आवां ब्रूवः वा ) . । अयं सिद्धान्तः सर्वत्र स्वोक्रियते अद्य, न केवलं 'अस्मत् ' शब्दे एकवचनस्य स्थाने तु प्रायः बहुचचनस्य प्रयोगः क्रियते यथा पं० रामकृष्ण, श्यामकृष्ण महोदयाः चा महाविद्वांसः सन्ति एवमेव अन्यस्थलेषु प्रयोगः अवलोक्यते । अनेन सिध्यति यत् बहुवचनस्य प्रयोगः सरलतया भवितुं अर्हति द्विवचनस्य स्थाने द्वितीयं इदं अपि स्पष्टीकृतं अस्माभिः यत् प्रसङ्गेन सर्व ज्ञातं भवितुं अर्हति । अतएच द्विवचनस्य दूरीकरणं सर्वथा हितकरम् | ( २ ) व्याख्या - सम्बोधनकारकस्य आवश्यकता न अस्ति । भवेत् चेत् तदा कर्तृकारकस्य रूपाणि प्रयुक्तानि स्युः । वस्तुतः फेवलं व्यक्तिवाचक संज्ञायां सम्बोधनका भवितुं अर्हति

● स्थानवाचक भाववाचक- जातिवाचकेत्यादि संज्ञासु एवमेव सर्वनामसु सम्बोधनकार्य भवितुं न अर्हति । अतएव सम्वोधन- फारकस्य सर्वत्रदाने कः लाभः ? मद्ददाश्चर्यस्य इयं वार्त्ता कश्चित् अपि विद्वान् अस्मिन् सम्बन्धे विचार न करोति । समये समये यदि विद्वद्भिः विचारः कृतः स्यात् तदा व्याकरणाव अनावश्यक नियमाः निस्सारिताः भवितुं अईन्ति आवश्यक- · नियमाः आवश्यक संशोधनानि वा दत्तानि भवितुं आईन्ति, येन संस्कृतमाग सदैव जीविता सवला शुद्धा च तिष्ठेत् ।