पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२६) अस्माभिः यत् सर्वे लकाराः संस्कृतभाषायां खरूपे तिष्ठेयुः तदा f भविष्यन्ति । प्रायः ३६ लक्षतः आधिकरूपाणि १९४४ धातूनां अयं व्यापारः संस्कृते वर्णनातीतं काठिन्यं आनेतुं शक्तः । अतएव तत् एव करणीयं यत् व्यावहारिकदृष्ट्या मापादृष्ट्या च उचितं स्यात् । संसारस्य कस्यांचित् अपि भाषायां एतादृशानि ३६ लक्षाधिकरूपाणि न विद्यन्ते क्रियाणाम् । . द्विवचननिस्सारण व्याकरणसम्मतम् । वहूनि कारणानि दत्तानि अस्माभिः यत् कथं संस्कृतभाषायां अपि द्विवचनस्य आवश्यकता नास्ति । इदं संस्कृतव्याकरण- सम्मतं अपि एकेन सूत्रेण प्रतीयते यत् अद्यः दीयते । व्यवहारे अपि एकवचनस्य स्थाने बहुवचनस्य प्रयोगः अवलोक्यते यथा- "पं० रामशङ्करमहोदयाः महाविद्वांसः सन्ति" यदि एकवचनस्य स्थाने बहुवचनस्य प्रयोगः भवितुं अर्हति तदा द्विवचनस्य स्थाने चहुवचनस्य प्रयोगः कथं न स्यात् । अनेन द्विवचनस्य सर्वथा निस्सारणं अपि सम्भवति येन भाषा- सौविध्यं आगच्छेत् । सूत्रं इदमस्ति, 66 अस्मदो द्वयोश्च " ११२ ५९ व्याख्या - एकत्वे द्वित्वे च विवक्षिते अस्मदः बहुवचनं वा स्यात् । वयं ब्रूमः | पक्षे अहं ब्रवीमि आवां ब्रूवः । अनेन सिध्यति यत् द्विवचनस्य स्थाने बहुवचनस्य प्रयोगः व्याकरण- - सम्मतः अस्ति । पूर्वोदाहरणात् अर्थात् " पं० रामशङ्करमहोदयाः महाविद्वांसः सन्ति " सिद्धं भवति यत्- अस्मदो द्वयोश्च " सूत्रस्य सिद्धान्तः अत्र स्वीकृतः विद्यते । एवमेव द्विवचनस्य स्थाने अपि भवितुं अहंति । द्विवचनस्य प्रयोगः अपि बाहुल्येन