पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२४) अस्यां अवस्थायां उर्दूसंश्लिष्टायाः हिन्दुस्तान्याः विरोधे अनौ- चित्यं अवलोकयामः वयं यतः उर्दूः पश्तो अरवीभाषा प्रभाविता ततः निस्सृता च । परभाषासंस्कृत्यादिग्रहणे केचन भीताः भारतीयाः स्वभाषा- संस्कृति वैकृत्य मनुचिन्तयन्ति । एतादृशं चिन्तनं भयानकं अज्ञानं तेषां संस्कृतशक्तौ प्रकटयति । ते न विचारयन्ति यत् संस्कृतभाषा जगति अद्वितीयशक्तिमती । यावत् सा भारते विद्यते तावत् समस्त संभारस्य अपि भापाः कदाचित् अपि न तां उच्छेत्तुं शक्ताः न तदाश्रितां भारतीयां संस्कृतिम् । ताः तु सर्वाः एव संस्कृतं सम्मुर्खाभूय दासीभूताः भविष्यन्ति। भारतीयैः अंग्रेजराज्ये संस्कृतं परित्यक्तं अतः एव अत्र अचिरस्थायिनी विदेशीयता दृश्यते । भारत यिराज्ये आप ये जनाः संस्कृतस्य राष्ट्रप्रधान भाषात्वं अस्वी- कृत्यं हिन्दी प्रचारयन्ति ते अनुचितं आचरन्ति । भारते सर्वविधा भीतिः संस्कृतत्य गेन एव सम्भवा । सत्यं उच्यते माननीय श्री अणे महोदयादिभिः संस्कृतं यदि न स्थास्यति तर्हि भारतं आप न स्थास्यति भारतीया संस्कृतिः च अपिन स्थास्यति इति । केचन संस्कृतं ब्राह्मणानां भाषां संसाध्य, तां एकदेशीयां केवलं ज्ञानभाषां प्रचार्य, तस्य विश्वभाषात्वं उच्छेद्य अनुचितं अर्चकाणां खिलीकरणं आकाङ्क्षमाणाः व्यवहारानईत्वं उद्घोप्य राष्ट्रभाषात्वं खण्डयन्ति । ते न जानन्ति यत् संस्कृत सेवकेषु आचाण्डालं आशूद्र द्विजातयः अपि सन्ति जैनाः, चौद्धाः, खिटानाः, मुसल्मानाः तथा अन्यदेशीयाः अपि ब्रह्मवत् जगद्व्याप्तायाः ब्राह्मयाः जगन्मातुः अयं अनादरः सर्वया सोढुं अयोग्यः । एतस्मात्कारणात् अस्माभिः भारतीयैः संस्कृतस्य एवं राष्ट्रभाषात्यं अङ्गीकृत्य प्रकटीकरणीयं यत् यस्याः भाषायाः विदेशीयाः सत्कारं कुर्वन्ति तस्याः भारतं पूर्वतः ,