पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२२) अवस्थायां भारतं कृपमण्डूकीकर्त्तु उद्यतानां हिन्दीवतां सुदृढ़ यः विरोध: आदिष्टः विचारवद्भ्यः भारतीयेभ्यः किं डा० लुई रेणोः अपराधत्वेन गणयिष्यते । हिन्दीभाषां भारते एव न यदा केचन पृच्छन्ति तदा एतया विदेशानां सम्पर्कस्थापनं तु दूरदूरम् । अद्य वङ्गोत्कलासाममहा राष्ट्रगुर्जरदक्षिणभारतेषु कः हिन्दी गृहीतुं उद्यतः ? उत्तरभारते अपि किं सर्वे एव सन्ति हिन्दी राष्ट्रभापात्वपक्षपातिनः न सन्ति ? वाद्युक्तेषु सर्वेषु संस्कृतराष्ट्रभाषात्वपक्षपातिनां प्राचुर्यम् । अत्र अपवादाः न गण्यन्ते । अस्यां अवस्थायां हिन्द्याः राष्ट्रभाषात्व- प्रख्यापनं केवलं उपहासास्पदम् । विचार्य दृश्यते तर्हि ज्ञायते यत् हिन्दीसंस्कृतोर्द्वेग्रेज॑त्या॒ादि विविधभाषाणां एकः अद्भुतः संयोगः यः संस्कृतसूत्रेण आवद्धः वर्त्तते । इत्थं हिन्दीचङ्गादिभाषावव प्राधान्यं न विभर्ति प्रतिक्षणं परिवर्तनशीला । पतादृश्याः भाषायाः राष्ट्रप्रधानभाषात्वं आग्रहाविठैः एव साधयिष्यते । अस्मत्कथनस्य अयं आशयः यत् भारतीयाः सर्व- प्रथमं संस्कृताय महत्पदं अर्पयेयुः । ततः भारतसम्बद्धविदेशीय- भाषाः पठेयुः । तदनन्तरं पूर्वतः एव संस्कृतप्रभावितेषु देशेषु भारतीयाः संस्कृतं उन्नमय्य, जगद्वितीय-भारतीयाध्यात्मज्ञानेन तान् वशीकृत्य, स्वसंस्कृती समानीय शास्त्रविधिना, स्वाकारान् विरच्य विश्वशान्तिं स्थापयेयुः । सर्वथा निश्चितं एतत् विश्व- शान्तिः भारतीयादर्शस्थापनं अन्तरा न सम्भवा । अस्माकं राष्ट्र- पतिः विश्वशान्ति इच्छति तदर्थं भारतीयः संस्कृतराष्ट्रभाषाये बिलम्बः न विधेयः । संस्कृतं शान्तिमूलम् । भारते कंचन जनाः उर्दूफारस्थरवी शब्दानां विरोधं कृत्या साम्प्र दायिकतां प्रचारयन्ति, प्रसारयन्ति यदा अस्माकं असाम्प्र