पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२०) आवश्यकः यत् यत्र समासे व्यक्तिस्थानवाचक संज्ञाः (प्रातिपदिक- रूपेण ) स्युः । अथवा एतादृशाः दर्घिसमासाः स्युः यत् शब्दानां शुद्धोच्चारणं असम्मतं जायेत तदा प्रातिपदिकरूपे शब्दाः पृथक् पृथक् देयाः । यथा अत्र लेखनीयं आसीत् "संस्कृत + उर्दू- अंग्रेजी-त्यादि विविधभाषाणाम् " येन आशयः सुस्पष्टः स्यात् । संक्षेपः तु अत्र अपि सञ्जातः, परं अत्र अर्थहानिः न भवति तथा उच्चारणं अपि भवितुं अर्हति । समासेपु एतादृशस्य संक्षेपस्य कः लाभः, येन आशयः अपि स्पष्टः न स्यात् न उच्चारणं आप भवेत् । अस्माकं तु निश्चितं मतं आस्ति यत् ' वाक्यपदेषु सन्धिः क्रियेत चेत् तदा केवलं द्वयोः पदयोः भवेत् । एवमेव समासः अपि अधिकाधिकं द्वित्रिशब्दानां भवेत् येन भाषा सारल्यं आगच्छेत् । अस्माकं मतानुसारं तु वाक्यपदेषु सन्धिव्याकरानुसारं न भवितुं अर्हति । विद्वद्भिः इदं सर्व विचारणीयं एकस्यां सभायाम् । वयं अस्याः सभायाः आयोजनं कर्तुं शक्नुमः । यदि ते वाक्यपदेषु अपि सरलसन्धिपक्षे भवन्तु तदा तत् एव कार्य्यम् | उत्तमं स्यात् यत् न्यूनातिन्यूनं २५ वर्षपर्यन्तं वाक्यपदेषु सन्धिः न क्रियते । नवीनसाहित्यं गद्यात्मकं पद्यात्मकं वा एतादृशं सन्धिरहितं निर्मितं स्यात् तथा प्राचीनसाहित्यं अपि सन्धिराहित्येन प्रका- शितं स्यात् । प्राचीनग्रन्थलेखकानां भाषा तु स्वरूपे स्थास्यति, केवलं भाषासारव्यं आगमिष्यति, येन संस्कृतं भूयः अन्ता- राष्ट्रियभाषा राष्ट्रभाषाच भविष्यति । सन्धिरहितः लेख: सुबोध: सरलः च । (सम्पादकीय लेखेन अनेन प्रकारेण भवितव्यम् ) गतसप्ताहे समाचारद्वयं ईदृशं प्रकाशितं येन समस्तस्य संसारस्य, भारतस्य च वार्ता न जानामि परं अहं अवश्यं अभूवं