पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११४) सम्मतं विद्वद्भिः स्वीकृतं भविष्यति । सर्वैः विद्वद्भिः मन्यते यत् " वाक्येषु सन्धिः विवक्षां अपेक्षते " । इयं न्यूनातिन्यूनं सर्वमान्या स्थितिः । वाक्यानि भापणे आप भवन्ति एवमेव लखने अपि । तदा कथं कथ्यते सम्पादकमहोदयैः यत् "......न तल्ले- खनवस्तु " | कुत्र अपि इदं न दत्तं विद्यते । अतएव महोदयैः स्वमतं स्वमतेन खण्डितं क्रियते । यदि वाक्येषु सन्धि- करणं इच्छाधीनं तदा क्रियते न वा । तत्र का हानि: । चाक्यपदेपु सन्धिकरणे कः लाभः ? अहं कमपि लाभं न पश्यामि । सम्पादक- द्वितीयं इदं कथ्यते सम्पादकमहोदयैः यत् "अस्माकं समस्त- भारतस्य महाविदुषां पत्रम्” । परं इदं सर्वैः महाविद्वद्भिः मन्यते यत् "वाक्येपु ( लेखने भापणे वा) सन्धिः वैकल्पिकः सर्वथा इच्छा- धीनः " अतएव यदि 'संस्कृतम् ' पत्रे वाक्येषु सन्धिःन क्रियेत तदा नियमविरुद्धता न आगन्तुं शक्नोति । अयं केवलं भ्रमः एव । अहं जानामि यत् केचित् पण्डिताः एतादृशीं आपत्ति उत्थापयन्ति परं तस्यां काचित् सत्यता नास्ति । संसारस्य अन्यासु सर्वासु भाषासु शब्दाः पदानि वा वाक्येषु पृथक् पृथक् विद्यन्ते । कम्याचित् अपि भाषायां पदानां मेलनं नक्रियते यथा संस्कृते कियते । लेग्रनभाषा कठिना सरला वा भवतु परं पदानां संहिती करणं सर्वथा अनावश्यकम् । वाक्यपदेषु सन्धिकारणात् बाधा उत्पद्यते । क्षणेक्षणे शब्दानां रूपाणि भिन्नानि जायन्ते अस्यां अवस्थायां बालकाः कि पण्डिताः अपि शब्दनिर्णये असमर्थाः जायन्ते । संस्कृतव्याकरणानुसारं तु "असंहितावाफ्ये " अयं नियमः, परं विद्भिः " वाक्ये संहिता विवक्षां अपेक्षते " इति मिद्धान्तः स्वीक्रियते । तदुपरिनियमरूपेण यापु सन्धिप्रयोगः मियते । कश्चित् अपि अद्य पण्डित न मन्यते यः वाक्येषु (लेमने मारणे या ) नियमरूपेण मन्धिप्रयोग न कुर्याए ।