पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११२) परभाषा संस्कृत्यादिग्रहणे केचन भीता भारतीयाः स्वभाषा- संस्कृति कृत्य मनुचिन्तयन्ति । एतादृशं चिन्तनं भयानकमज्ञानं तेषां संस्कृतशक्तौ प्रकट्यति । ते न विचारयन्ति यत् संस्कृत- भाषा जगत्यद्वितीयशक्तिमती । यावत् सा भारते विद्यते तावत्समस्त संसारस्यापि भाषाः कदाचिदपि न तामुच्छेत्तुं शक्ता न तदाश्रितां भारतीयां संस्कृतिम् । तास्तु सर्वा एव भारतीयैरग्रेज संस्कृतं सम्मुखीभूय दासीभूता भविष्यन्ति । राज्ये संस्कृतं परित्यक्तमतएवात्राचिरस्थायिनी विदेशीयता दृश्यते । भारतीयराज्येऽपि ये जनाः संस्कृतस्य राष्ट्रप्रधानभाषा- त्वमस्वीकृत्य हिन्द्याः प्रचारयन्ति तेऽनुचितमाचरन्ति । भारते सर्वविद्या भीतिः संस्कृनत्यागेनेव सम्भवा । सत्यमुच्यते माननीय श्री अणे महोदयादिभि: मस्कृतं यदि न स्थास्यति भारतीया संस्कृतिश्चापि न स्थास्यतीति । केचन संस्कृतं ब्राह्मणानां भाषां संसाध्य, तामेकदेशीयां केवलं ज्ञानभाषां प्रचाय, तस्य विश्वभाषात्वमुच्छेद्य अनुचितमचंकाणां खिलीकरणमाकाक्षमाणा व्यवहारानहं त्वमुद्घोप्य राष्ट्रभाषात्वं सण्डयन्ति। ते न जानन्ति यत् संस्कृत सेवकेषु आचाण्डालमाशूद्रं द्विजातयोऽपि सन्ति, जैनाः, चौद्धाः, सिटानाः, मुसल्मानास्तथान्य देशीया अपि ब्रह्मवजगद्दयाप्ताया ब्राह्मघा जगन्मातरयमनादरः सर्वथा सोदुमयोग्यः एतस्मात्कारणावस्माभिर्भारतीयः संस्कृतस्यैव राष्ट्रभाषात्वीकृत्य प्रकटीकरणीयं यद् यस्या भाषाया विदेशीयाः सत्कारं कुर्यन्ति तस्या भारतं पूर्वत एवार्चनं करोति, प्रधानपदे घ संस्थापयति । एवमेवास्माकं विदेशीय संस्कृत समादरणस्य समुचितमुत्तरं भवितुमर्हति यदपेक्षतेऽद्य संसारः । व्याया- पं. कालीप्रसादशास्त्रिमहोदया: 'संस्कृतम्' पत्रस्य माननीय सम्पादकाः भारतस्य सुप्रसिद्धमहापण्डिनेषु सन्ति,