पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११०) वङ्गायुक्तेषु सर्वेषु प्रान्तेषु संस्कृतराष्ट्रभाषात्वपक्षपातिनां प्राचुर्यम् । अत्रापवादा न गण्यन्ते । अस्यामवस्थायां हिन्द्या राष्ट्रभाषात्व- प्रख्यापनं केवलमुपहासास्पदम् । विचार्य दृश्यते तर्हि ज्ञायते यद्धिन्दी संस्कृतोर्द्वग्रेजीत्यादि विविधभाषाणामेकोद्भुतः संयोगोऽयं संस्कृतसूत्रेणाबद्धो वर्त्तते । इत्थं हिन्दी वङ्गादिभाषावत् प्राधान्यं न विभर्त्ति प्रतिक्षणं परिवर्त्तनशीला । एतादृश्या भाषाया राष्ट्रप्रधानभाषात्वमा ग्रहाविष्टैरेव साधयिष्यते । अस्मत्कथनस्यायमाशयो यद् भारतीयाः सर्वप्रथमं संस्कृताय महत्पदमर्पयेयुः । ततो भारतसम्बद्धविदेशीयभाषाः पठेयुः । तदनन्तरं पूर्वत एव संस्कृतप्रभावितंषु देशेषु भारतीयाः संस्कृत- मुन्नमय्य, जगदद्वितीयभारतीयाध्यात्मज्ञानेन तान् वशीकृत्य, स्वसंस्कृतौ समानीय शास्त्रविधिना, स्वाकारान् विरच्य विश्व- शान्ति स्थापयेयुः । सर्वथा निश्चित मेतद्विश्वशान्तिः भारतीयादर्श- स्थापनमन्तरा न सम्भवा । अस्माकं राष्ट्रपतिर्विश्वशान्तिमिच्छति तदर्थ भारतीयैः संस्कृतराष्ट्रभाषात्वे विलम्बो न विधेयः संस्कृतं शान्तिमूलम् । भारते केचन जना उर्दु-फारस्यरवीशब्दानां विरोधं कृत्वा साम्प्रदायिकतां प्रचारयन्ति, प्रसारयन्ति यदाऽस्माकमसाम्प्रदा- यिकः सरकारः साम्प्रदायिकताप्रचारकाणां न केवलं विरोधमेव करोति, प्रत्युत तान् दण्डयत्यपि यस्य साम्प्रदायिकतावादस्य जनतायाः सरकारः स्थिति न कामयते तमेव सरकाराधिष्ठात्री जनतैव काचित् सङ्घीभूय प्रसह्य यदि संस्थापयेत् तर्हि महाखेदएव। विश्वशान्तिस्थापका भारतीयाः समम्तञ्जगदात्मसदृशं मन्वाना न कस्यचिद्विदेशीयस्थ धर्मस्य, सम्प्रदायस्य, जनस्याहितमसत्कारं