पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०८) नवीनजीवनं प्रदास्यन्ति । अत्र एकं उदाहरणमपि पुनः प्रदीयते प्रचलित संस्कृतस्य, येन अस्माकं निवेदनं सुस्पष्टं स्यात् । अहं वारं वारं निवेदयामि यत् प्रचलितसंस्कृतस्य शुद्धोच्चारणं अवाध्यपठनपाठनं अपि भवितुं नार्हति । कदापि कदापि अर्थस्य अनर्थः अपि भवति । प्रायः चाक्येषु सन्धिकारणात् अर्थः स्पष्टः न जायते अर्थात् वाक्यार्थहानिः सञ्जायते । वाक्यार्थज्ञानं न भवति, अतएव ज्ञानहानिः सञ्जायते । भाषा लोक परलोकज्ञानाय भवति । अतएव का भाषा नाम तस्याः यस्याः काठिन्यकारणात् ज्ञानवृद्धिः पूर्वज्ञानरक्षणं वा न सम्भवति । प्रचलित रूपे संस्कृत स्य हासः अवश्यम्भावी । अनेन सह वेदज्ञानस्य एवमेव अस्माकं पूर्वपुरुषाणां ऋषिमुनीनां ज्ञानस्य लोपः अवश्यम्भावी । अनेन लोकहानिः । प्रचलित संस्कृतस्य उदाहरणम् । ( एकं उद्धरणम् २८-१२-४८ तारिकायाः पत्रस्य दीयते । इदं उद्धरणं " संपादकीयलेखः " अस्ति ) "संस्कृतम् " भारतादुत्तरमपेक्षते 9 गतसताहे समाचारद्वयमोदृशं प्रकाशितं येन समस्तस्य संसा- रस्य, भारतस्य च वार्ता न जानामि परमहमवश्यमभूवञ्चकितच- कितः | प्रथमः समाचारस्तु काबुलविश्वविद्यालयस्य साहित्य- पाठक्रमे संस्कृतस्यानिवार्यमध्ययनम् द्वितीयश्च चिदम्बर- स्थाण्णामलै - विश्वविद्यालये पैरिसविश्वविद्यालय संस्कृताध्यापक डा० लुई रेणुकृतं संस्कृतस्य राष्ट्रमापात्वसमर्थनम् । विदेशीयैः कृतोऽयमत्युत्कृष्टः संस्कृतभाषाया आदरो भारतादुत्तरमपेक्षते यत् तस्य कीदृशी विदेशीयभापासु समादर-बुद्धिरिति विदेशी- येषु विदेशीयसंस्कृतिषु संस्कृते च ? •