पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०७) संशोधनं कुर्वन्तु । लौकिकसंस्कृतभवनस्य मूलाधारा मूलस्त- स्माः स्वरूपे तिष्ठन्तु, परं यत्रतत्र भग्नांशाः ते दूर करणीयाः, भवनस्य दृढीकरणाय नवीनाः निर्मापनीयी स्थापनीया च भाषाघारेपु आमूलचूलपरिवर्त्तनस्य आवश्यकता नास्ति, पर येन प्रकारेण संस्कृतभाषाभवनं सुदृढं स्यात् तत्सर्व करणीयम् यथा गीतायां विद्यते- --- वासांसि जीर्णानि यथा विद्वाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही | (गता २१ २२ ) अतएव संस्कृतराजभवनस्य जीर्णांशाः स्थलानि वा शोकमोह- रागद्वेषादिरहितेन आहेण दूरीकरणीयानि | केवलं अनेन मार्गेण पप अर्थसिद्धि भवितु अर्हति न अन्यथा । जीर्णाशदूरीकरणे कः शोकः क मोह ? जीर्णवस्त्रेषु जीर्णांशेपु मोहः त्याज्यः । यथा मूर्खजना: जीर्णवस्त्रेषु शरीरेषु वा मोहं कुर्वन्ति तथा पण्डितै. संस्कृतविद्वद्धि भाषा- शुभचिन्तकै न करणीयम्। संस्कृतस्य जीर्णशरीरेण अद्य किं भवितुं अहंति ? यथा जीर्णशरीरकारणात् आत्मा देही या निर्बल पुरुषार्थहीनः मरणासन्न प्रतीयते, तथा मद्य वेदज्ञानविज्ञानरूपि-प्रधानतसं आत्मतत्त्व वा यत् सस्कृत- साहित्यरूपि-शरीरे निवसति निरर्थक कान्तिहीन प्रनीयते । तथापि कियन्त पण्डिताः सस्कृतरूपि ऑर्णशरीरे मोह कुर्वन्ति, सस्कृतस्य मृतप्रायशरीरे नवीन जीवन स्फूर्ति वा दातु नेच्छन्ति, तदुपरि च कामयन्ते यत् सस्कृत भूय राष्ट्रभाषा भवेत् । हद कथित अस्माभि यत् प्रचलितरूपे संस्कृत कदापि जन- भाषा राष्ट्रभाषण च भवितुं न अर्हति पूर्ववत् । संशोधनानि आवश्यकानि जातानि सन्ति, यानि संस्कृतस्य मृतप्रायशरीरे