पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०६) अस्ति यत् शनैः शनैः वेदज्ञानस्य सर्वथा लोप: स्यात् । महाश्चर्य- स्य इयं वार्ता यत् द्वितीय महायुद्धस्य पूर्व जर्मनदेशे सायणा- चार्यस्य ऋग्वेदमाप्यं मिलतिस्म ३७५) रूप्यकेषु । भारते वर्षे तत् अपि प्राप्तं न आसीद, एवमेव अन्येषां वैदिकग्रन्थानां दशा आसीत् । अद्य तु कश्चित् उद्योगः पुण्यपत्तन नगरे चलति तथा ततः ऋग्वे दमाप्यं प्राप्तुं शक्यते, परं मूल्यं एतावत् विद्यते यत् विरलजनाः दातुं शक्नुवन्ति । एतेभ्यः सर्वेभ्यः कारणेभ्यः वैदिकसाहित्यस्य पठनपाठनं दुर्लभं सञ्जातम् । वैदिकभाषा अपि सन्ध्यादि- कारणात् कठिनतमा अभवत् । तदा मनुष्याणां विशेषतया भारती- यानां वेदे अरुचिः उत्पन्ना | वैदिकशब्दकोपः प्रायः अप्राप्तवस्तु | अनेन वेदमन्त्राणां अर्थः अपि न लगति । वस्तुतः वेद मन्त्रार्थ- ज्ञाने वैदिकभाषाज्ञानेन सह तपः योगः वा आवश्यकः | योगा- वस्थायां वेदमन्त्राणां सम्यक् अर्थज्ञानं भवितुं अर्हति भवति एव । केवलं शब्दशानेन सम्पूर्णार्थज्ञानं न भवति । दैवी सम्पत्तिः इयं अतएव ईश्वरसाहाय्यं अपेक्षते । सम्पूर्णवेदार्थज्ञाने योगः आव- श्यक., परं प्रथमं तु भाषाज्ञानं नितान्तं आवश्यकम् | भाषाज्ञानाय सम्पूर्णवैदिकव्याकरणं कोपः च आवश्यकः । लौकिक संस्कृतविषये अपि नवीनं व्याकरणं सम्पूर्णकोषः च आवश्यकः । अद्य लौकिकसस्कृतव्याकरणे संशोधनानि आवश्यकानि । अतएव सर्वे विद्वांसः एकीभूय अस्मिन् निपये विचारं फुर्वन्तु यत् उचितं स्यात् तत् एव पूर्णतया विचार्य करणीयम् । प्राचीनव्याकरणपुस्तकानि विद्भिः निर्मितानि तम्य कालस्य आवश्यकर्ता अनुभूय । अद्य आधुनिक-विळांसः वर्तमानकालस्य आवश्यकता अनुभूय व्याकरणे आवश्यकं ।