पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०४) ( १ ) तस्य वाचकः प्रणवः, ( २ ) तज्जपस्तदर्थभावनम्, सन्धि- ( ३ ) ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । (पा. यो. द. समाधिपाद: २७-२९ सूत्राणि ) वैदिक साहित्ये अपि 'वाक्येषु' (गद्यपद्ये वा) कारणात् शब्दोच्चारणं अर्थज्ञानं च प्रायः असम्भवं सञ्जातम् । अतंरव अद्य प्रायः वेदशाः न प्राप्यन्ते । ये वेदशाः कथ्यन्ते ते प्रायः स्वरसहितं वेदगानं पठनं वा कर्तुं शक्नुवन्ति । ते प्रायः शुद्धशब्दोच्चारणे अर्थज्ञाने वा असमर्थाः | वाक्येपु सन्धिकारणात् शुद्धोच्चारणं सर्वथा असम्भवम् । अनेन शब्दानां सम्यक् ज्ञानं भवितुं न अर्हति, तदा का कथा तेषां अर्थानाम् | अर्थशानाभावात् · मन्त्रशक्ति: लुप्ता अभवत् । वैदिकसाहित्ये तु केवलं चाफ्येषु अ सन्धिकारणमात्रं एव अस्माकं कर्त्तव्यम् । अनेन सर्व प्राप्तं भवि- प्यति पूर्ववत् । , 'वेदे' ते सर्वे लकाराः तिष्ठन्तु ये तत्र विद्यन्ते । वैदिक- व्याकरणं शब्दकोषः वा पृथक् विद्यते । अद्य वैदिक-व्याकरणं शब्दकोषः वा पूर्णः न अस्ति । इदं सम्मयं अस्ति यत् प्राचीन- काले सर्व पूर्ण आसीत् परं अद्य इयं स्थितिः न अस्ति । समय- प्रभावः प्रबलः । बहुवैदिकसाहित्यं नष्टम् । अतएव भूयः प्रयत्नः कार्य्यः । इदं ऐतिहासिकं तथ्यं यत् बहुसाहित्यं बौद्धकाले मुस्लिमकाले च नष्टम् अथवा अस्माकं आलस्यात्, अज्ञानात, प्रमादात् वा नष्टम् । दोषः तु अस्माकं एव । 'वेदे' दिवचनं अपि तिष्ठतु | तस्य विरोधः न अस्ति । परं यत् वेदे आवश्यक अनावश्यकं वा तत् लोके भवितुं न अहीत, यथा लेट् लकारः वेदे प्रयुज्यते लोके न भवति, पत्रमेव अन्य विषयेषु अपि । वैदिक- शब्दानां सृष्टिः अपि भिना। तेषां विषये प्राय: कथ्यते-