पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०३) द्विवचनस्य निस्सारणे कः लाभः ? पूर्व इदं अपि निवेदितं अस्माभिः सङ्केतमात्रेण यत् द्विवचनस्य लौकिकमंस्कृते आवश्यकता नास्ति । वस्तुतः एकं अनेकं वा भेदं अवलम्ध्य वचनविभाग कार्य्यः यथा संसारस्य अन्यासु सर्वासु भाषासु क्रियते जर्मनभाषां विहाय । जर्मन भाषायां तु द्विवचनं विद्यते । प्राचीनकालत. एवं जर्मनदेशे ( शर्मणदेशे) संस्कृतस्य महीयान् प्रचारः चर्त्तते । द्वितीयमहायुद्धस्य पूर्ये तु प्रायः सर्वेषु जर्मनविश्वविद्यालयेषु संस्कृताध्ययनं अनिवार्य अतिष्ठत् । पेरिसविश्वविद्यालयस्य संस्कृतप्रधानाध्यापकः श्री लुई रेनु महोदयः नागपुरे कथितवान् यत् संस्कृत साहित्यविषये जर्मनदेशे महत् अन्येपणं अभवत् । इदं प्रतीयते यत् संस्कृ अनुकृत्य द्विवचनं गृहीतं जर्मनभाषायाम्। तत् भवतु, पर वस्तुतः द्विवचनस्य आवश्यकता न अस्ति । . वेदे आप द्विवचनं भवतु, परं लोके आवश्यक अप्ति न वा इद चिचार्य्यते । संस्कृत साहित्ये 'चेदः लोकः ' इति प्राचीन. तमः विभागः। 'वेदः' अपौरुषेय, लोकः पौरुपेयः, अतएव 'लोके ' अस्माकं अधिकारः विद्यते । ' लोके' यत् संशोधनं लोकहिताय आवश्यक सत् एव अवश्यमेव करणीयम् । वैदिक- साहित्ये तु सन्धिः विद्वद्भिः अनन्तरं कृतः, अतएव तस्मिन् 'विपये आवश्यकः सुधारः भवितुं अर्हति येन वैदिकशब्दानां चास्तविकस्वरूपः उच्चारणं वा निश्चितं स्यात् । तत् इदं कथितं अस्माभिः यत् वेदमन्त्रेषु अद्य शक्तिः न विद्यते । मन्त्रशक्तिः मन्त्रार्थज्ञानात् उत्पन्ना भवति यथा-