पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०२) आवश्यकता ! - लम्व्य वर्त्तमान-भूत-भविष्यत्कालविभाजनस्य नास्ति । विश्वस्य कस्याञ्चित् अपि भाषायां अयं भेद न विद्यते । कालस्वरूपं अपि निर्णीतं अस्माभिः | कालः स्वरूपतः अनवरतं वहति एव । वस्तुतः कालविभागः भवितुं न अर्हति । वस्तुतः व्याकरणे कालविभागः एका काल्पनिक क्रिया या व्यवहार- सौविध्याय विद्वद्भिः क्रियते मन्यते वा । यदि कालविभागः अद्यतन - अनद्यतनभेदं अवलम्ब्य क्रियेत चेत् तदा क्षणक्षणभेदं अवधार्य कथं न क्रियेत । ईदृशे कालविभाजने अयं दोषः भा- गच्छति । वस्तुतः व्यावहारिकदृष्ट्या कालविभाजनं करणीयं यथा अन्यासु भाषासु क्रियते । निर्दोष सम्पूर्ण वस्तु तु केवलं ब्रह्म एव । लोके इदं सर्व सम्भवं नास्ति । अतएव व्यावहारिक दृष्ट्या यत्किवि करिष्यते तत् एव साधु भवितुमर्हति । व्याव- हारिकदृष्ट्या भापासरलीकरणाय च केवलं चतुकाराणां आव श्यकता प्रतीयते । इदं भूयः अपि स्पष्टीक्रियते अस्माभिः यत् कालविभागः एका मानसीक्रिया या मनुष्याणां मस्तिष्के वर्त्तते । वर्त्तमानकालः तत् एव कथ्यते यस्मिन् काले कश्चित् व्यापारः चलति । यदि स व्यापारः पूर्वकाले समाप्तः तदा सः पूर्वकालः भूतकालः अर्थात् गतकालः कथ्यते । एवमेव याद कश्चित् व्यापारः आगामिनि काले भविष्यति तदा सः कालः भविष्यत्कालः कथ्यते । इदं सर्व मानसीय एव । अतएव कालमर्म ज्ञात्वा व्यवहार- सौविध्याय वर्तमान-भूत-भविष्यत्कालेषु त्रिलकाराः अर्था लद्-लट्-लिट् प्रयोकव्याः । लोके अनेन पूर्णतया कार्य्यं चलितुं अर्हति । विध्यादिपु एवमेव हेतुहेतुमद्भावे लिए लकारस्य प्रयोगः स्यात् यथा महाभारतादि-प्राचीन प्रस्थेपु अवलोक्यते ।