पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१००) हितं चिन्तयन्ति, ये ऋषि-मुनि-परमात्मप्रदत्तज्ञान-विज्ञानं रक्षितुं इच्छन्ति । यदि मानवाः विशेषतया भारतीयाः स्वकर्त्तव्य- पालनं न करिष्यन्ति, तदा काचित् देवना, युक्तजनः, युक्तयोगी वा ईश्वरप्रेरणया लोके अवतरिष्यति, येषां प्राय: ईदृशी प्रतीक्षा विद्यते । यदा यदा हि धर्मग्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय सभवामि युगेयुगे ॥ (गीता. अ. ४, लो. ७८) इदं सदा एव भवति येन ईश्वरज्ञानस्य निर्भ्रान्तवेदज्ञानस्य ऋषि-मुनि प्रदत्तज्ञानस्य वा लोपः न स्यात् । यदि अस्य ज्ञान- विज्ञानस्य लोपः स्यात् तदा लोकान्तः सृष्टयन्तः वा भवेत् । $ परं मनुष्याणां अपि किञ्चित् कर्तव्य अस्ति, यत्ते तस्य सरली- करणे कार्य्यं कुर्य्यु, येन अस्माक पूर्वपुरुपाणां ज्ञानविज्ञानं लुप्त न स्यात् । यम्य सम्बन्धे ईदृशं कथ्यते । नासनो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ अविनाशि तु तद्विद्धि येन सर्वमिद ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ अन्तवन्त इमे दहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्धयस्व भारत ॥ (गीता. अ. २, लो. १६-१८) अन्तवन्तः इमे देहाः नित्यरूप शरीरिणः, 'अनपव मिथ्या गये आलस्यं वा विहाय हे भारतीया | सत्यं फुक्त । असत्यं