पृष्ठम्:कीदृशं संस्कृतम्?.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९९) संख्याकानि कण्ठस्थी कर्तुं शक्नोति ? कश्चित् पुरुषः ईंडशः भवेत् चेत् तदा एकेन द्वाभ्यां वा भवति किम् ? द्वितीयं सर्वे धातवः १९४४ संख्याकाः सन्ति । यदि एतेषां सर्वेषां रूपाणि दत्तानि स्युः तदा ३६ लक्षतः अधिकानि रूपाणि भविष्यन्ति । उदाहरणार्थं इदं मन्येत चेत् यत् १००० उभयपदि धातवः सन्ति, तदा तेषां २५, १२,००० रूपाणि भविष्यन्ति । ९४४ शेषधातव. 'एकपदी 'स्यु तदा तेषां ११,८०,००० रूपाणि भविष्यन्ति । एतेषां सर्वयोगः ३६, ५२,००० भविष्यति; अर्थात् पत्रिंशव-लक्ष द्वयाधिकनवति सहस्राणि रूपाणि भविष्यन्ति । इमानि रूपाणि तु प्रायः केवलं १९४४ धातूनां भविष्यन्ति । परं धातुतः कृत् तद्धितयोः संज्ञानां अपि रूपाणि चलन्ति । अनेन एकैकघातोः अनन्तानि रूपाणि भवन्ति कियायां संज्ञायां च । लौकिक - संस्कृतस्य वर्णनातीतायाः कठिनतायाः इदं भयङ्कर- रूपम् । प्रायः सर्वैः संस्कृतक्षैः इदं न अवबुध्यते । अहं विचारयामि यत् तेषु बुधाः अपि इदं सर्वे न विचारयन्ति । विरलाः जनाः संस्कृ तस्य काठिन्यं चिन्तयन्ति, परं प्रायः ते अपि मौनं अवलम्बन्ते, तेषु विरलजनेषु अद्य एकः जनः संस्कृतस्य वर्णनातीत-काठिनस्य भीषणतायाः प्रदर्शनाय दुस्साहसं करोति । देशहिताय भाषा- हिताय च इदं कार्य आवश्यकं जातं अस्ति । । अतएव विदुषां भर्सनभयं अपि परित्यज्य कर्त्तव्यपालनं क्रियते । इदानीं इदं न क्रियेत चेव तदा संस्कृतस्य लोपः भवितुं अर्हति, तेन सह अस्माकं सर्वसाहित्यस्य, अध्यात्मविद्यायाः वेदशानस्य ब्रह्मज्ञानस्य लोप. अपि । अनेन विश्वकल्याणस्य एकमात्रावलम्बः ईश्वरप्राप्तेः एकमात्रमार्ग अवरुद्धः लुतः या स्यात् । अतएव इदं निवेदनं आवश्यक सञ्जातम् । सर्वे विद्वांसः विचारन्तु ये लोक-