पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
किरातार्जुनीये

  प्रचलिते इति ॥ असहिष्णुना तयोर्भारमसहमानेन भूभृता शैलेनाभावभयाद्विनाशभयादिव मुहुर्वृषश्च कपिश्च ध्वजे ययोस्तयोर्वृषकपिध्वजयोः प्रचलिते चलने सति चलितं प्रचेले । आस्थिते तूष्णीमवस्थाने स्थितं तथैव तस्थे । विनमिते सम्यगाक्रमणे सति नतं नम्रीभूतम् । अनामीति यावत् । उन्नतावुन्नमने सत्युन्नतमुदनामि। सर्वत्र भावे क्तः।

करणशृ[१]ङ्खलनिःसृतयोस्तयोः कृतभुज[२]ध्वनि वल्गु विवल्गतोः।
चरणपातनिपातितरोधसः प्रससृपुः सरितः परितः स्थलीः॥११॥

  करणेति ॥ करणानि करचरणवन्धविशेषास्तान्येव शृङ्खलानि तेभ्यो निःसृतयोः। मुहुस्त्यक्तबन्धयोरित्यर्थः। कृतो भुजध्वनिर्भुजास्फोटनशब्दो यस्मिन्कर्मणि तत्तथा वल्गु सुन्दरं च यथा तथा विवल्गतोरुत्प्लवमानयोस्तयोर्हरपार्थयोश्चरणपातैः पाद- क्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः परितः स्थलीषु प्रससृपु प्रसृताः । 'अभितःपरितः-' इत्यादिना द्वितीया । 'जानपद-' इत्यादिनाकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः स्थलानि प्रामज्जयन्नित्यर्थः। एतेन तयोर्भार उक्तः ॥

वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः।
चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुराम् ॥१२॥

  वियतीति ॥ वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां जयिनं त्रिपुरान्तकम् । 'जिदृक्षि-'इत्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणाभ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्यान्तरा मध्येमार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरवभ्यां जग्राहेत्यर्थः ॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ त[३]मक्लमं निष्पिपेष परिरभ्य वक्षसा ॥१३॥

  विस्मित इति ॥ तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः सविस्मयः कर्मणां क्षयकरः । मोक्षप्रद इत्यर्थः। परः पुमान्हरोऽवनौ क्षितौ क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः। अक्लममक्लान्तं तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिलिङ्गेत्यर्थः । रथोद्धतावृत्तम् ॥

तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥१४॥

  तपसेति ॥भगवान्देवोऽस्यार्जुनस्य विपुलसत्त्वतया बहुसत्त्वसंपदा । धैर्यसंपत्त्येति


  1. 'विभ्रम' इति पाठः
  2. 'आहति' इति पाठः
  3. 'गतक्लमम्' इति पाठः