निपतित इति ॥ अयुगानि चक्षूंषि यस्य तस्यायुगचक्षुषस्त्रिलोचनस्यायते दीर्धे अरत्नियुगे अरत्न्योर्बद्धमुष्ट्योर्हस्तयोर्युगे युग्मे । 'हस्तो मुष्ट्या तु बद्धया। स रत्नि: स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' इत्यमरः। प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः । शिरोधरायामधीत्यधिशिरोधरमधिकंधरं समं युगपन्निपतिते सति किरीटिनार्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि।'संख्ययाव्ययासन्न-'इत्यादिना बहुव्रीहिः। 'चतुरोऽच्प्रकरणेञ्युपाभ्यामुपसंख्यानम्' इति समासान्तोऽच्प्रत्ययः । तेषु त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम् । भावे लिट् ॥
अभिभवो[१]दितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा । |
अभिभवेति॥ अभिभवेनोक्तरूपेण परिभवेनोदित उत्पन्नो यो मन्युः क्रोधस्तेन विदीपितः प्रज्वलितः सोऽर्जुनो भृशं जवं समभिसृत्य समभिद्रुत्यौजसा बलेन शशिकलाभरणस्येन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह ॥
प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः । |
प्रववृत इति ॥ अथ महाहवे महारणे मल्लयोर्बलीयसो: । 'मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि' इति विश्वः। गुरू भुजान्नेवायुधं तेन गर्वितयोस्तयोः शिवार्जुनयोः करणानि करचरणबन्धनान्येव शृङ्खलानि तेषां संकलना संघटना तया गुरुर्दुस्तरस्तथाचलस्य हिमाद्रेः संचलनं कम्पस्तस्याहरण आरोपकः। कर्तरि ल्युट् । रणःप्रववृते प्रवृत्तः॥
अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । |
अयमिति ॥ अयं पुरोवर्ती पुमानसौ भगवान्प्रसिद्धो देवः तदुक्तम्--'इदमः समक्षरूपं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥' इति । उत पाण्डवः । अयं हि तिष्ठदवस्थायां भ्रम इति वेदितव्यम् । अथ पतनावस्थायामाह- मुनिनावागधः स्थितमुत शशिमौलिना । अजेन देवेन नु समधिरूढमुपरि स्थितमथ जिष्णुना स्विदर्जुनेन वा समधिरूढमित्येवं गणैः प्रमथैर्वेगवशान्मुमुहे भ्रान्तम् । 'मुह वैचित्ये' । भावे लिट् ॥
प्र[४]चलिते चलितं स्थितमास्थिते वि[५]नमिते नतमुन्नतमुन्नतौ। |