ष्ठेन मुष्टिना' इत्यमर उभयथा प्रयोगाद्विलिङ्गस्तथाप्यत्रोपमानसारूप्यात्पुंलिङ्गो ग्राह्यः । द्रुतविलम्बितं वृत्तम् ॥
हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः । |
हरेति ॥ हरपृथासुतयोः शिवार्जुनयोरमृदु निबिडं यथा तथा संवलिताः संघटिता अङ्गुलयो येषां ते । मुष्टीकृता इत्यर्थः । तेषु पाणिषु जातस्तथोक्तः । स्फुटन्तीनां विदलन्तीनामनल्पशिलानामारव इव दारुणो भीषणो ध्वनिरुत्पतन्नुद्गच्छन् दरीभृतो गिरेर्दरीषु गुहासु प्रतिननाद प्रतिद्ध्वान ॥
शिवभुजाहृतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः । |
शिवेति ॥ कपिध्वजः शिवस्य भुजाहतिभिर्मुष्टिघातैर्भिन्ना विदीर्णा याः पृथवो महत्यः क्षतयः प्रहारा व्रणास्ताः सुखमिवानुबभूव । दुःखकरीरपीति भावः ।क्षतिदुःखं नाजीगणदित्यर्थः । ननु दुःसहदुःखवेगेषु कथमगणनेत्यत्राह -क इति । क इव नाम को नु खलु सत्त्ववतां सत्त्वाधिकानां बृहन्मनसां तेजस्वीनामनुकृतेरनुकरणस्यापि क्षमो भवेत् । मनस्विनां चरितं नटवदनुकर्तुमपि न कश्चिदीष्टे तस्याचरणं तु दूरापास्तमिति भावः। रौद्ररसाविष्टमनसां मनस्विनां कुतः सुखदुःखगणनेति भावः ॥
व्रणमुखच्युतशोणितशीक[२]रस्थगितशैलतटाभभुजान्तरः। |
व्रणेति॥ व्रणमुखेभ्यश्च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलासदृशं भुजान्तरं वक्षो यस्य स तथोक्त उमापतिरभिनवमौपसरागं संध्या- रागंविभर्तीति तथोक्तेन जलधरेण समानं तुल्यं यथा तथा बभावित्युपमा ॥
उरसिशूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनवृष्टयः । |
उरसीति ॥ शूलभृतः शिवस्योरसि प्रहिताः प्रयुक्ता अर्जुनस्य मुष्टयः । पृथुनि विशाले सह्यमहीभृतः सह्याद्रे रोधसि तटे भृशरयास्तीव्रवेगाः सिन्धोः समुद्रस्थ महोर्मय इव मुहुः प्रतिहतिं ययुः॥
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः । |