पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
अष्टादशः सर्गः।

भुजाभ्यामाजघ्ने ताडितवान् । अत्रात्मनेपदं विचार्यम् । 'आङो यमहनः' इत्यत्राकर्म- काधिकारात् 'स्वाङ्गकर्मकाच्च' इति वक्तव्यत्वात् । न च शिवस्य प्रतिमुखमित्यन्व- यात्कनकशिलानिभं कनकनिकष्रतुल्यं श्यामं स्ववक्ष आजघ्न इत्यर्थ इतिवाच्यमनौचित्याचरणात् । न हि युद्धाय संनद्धा निपुणा अपि मल्लाः स्ववक्षस्ताडनमाचरन्ति । किं तु स्वभुजास्फालनम् । किं च । अनन्तरं वक्ष्यमाणभवकर्तृकाविनयसहनविरोधाद्वक्ष एवेत्यन्वयस्याव्यवधानाच्च पूर्वैरेव दूषितत्वात् । अतो व्याकरणान्तराद्द्रष्टव्यम् । केचित्तु 'त्र्यम्बकस्य वक्षः प्राप्य' इत्यध्याहारं स्वीकृत्याकर्मकत्वादात्मनेपदमाहुः ॥

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर[१]सुगममरिसैन्यैरङ्कमभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः॥६४॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तदशः सर्गः ।

  अभिलषत इति॥कीर्तिलक्ष्म्योरुपायं साधनभूतमरिसैन्यैरसुगमं दुरासदं विक्रममभिलषतः। सूनुपक्षे यत्किचिन्महत्फलं प्रार्थयमानस्येत्यर्थः । अतएवाङ्कमन्तिकमभ्यागतस्योत्सङ्गमारूढस्य च पाण्डवस्याविनयं स्मरारिः। अनेन भक्तवात्सल्यमेव सहनकारणमिति सूच्यते । शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य । कुतः । एक एव सुनुस्तस्यैकसूनोविनयं जनक इव सेहे सोढवान् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां सप्तदशः सर्गः समाप्तः ॥


अष्टादशः सर्गः।


तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घ[२]नैरिव मुष्टिभिः॥१॥

  तत इति ॥ ततो मुष्टिनियुद्धानन्तरमुदग्रे महति द्विरदे गज इव भीमे भुजावेवायुधे यस्य तथाभूते रणमुपेयुषि मुनौ शंकरः स्वयमपि सबाणधि सतूर्ण धनुरपास्य त्यक्त्वा मुष्टिभिर्घनैर्लौहमुद्गरैरिव प्रतिजघान । प्राङ्मुनिकृताघातस्य प्रतिघातं कृतवानित्यर्थः। 'घनाः कठिनसंघातमैघकाठिन्यमुद्गराः' इति वैजयन्ती। घनस्तु लोहमुद्गरे' इति विश्वः । यद्यपि मुष्टिशब्दः 'मुष्ट्या तु बद्धया । स रत्निः स्यादरत्निस्तु निष्कनि-


  1. 'असुकरम्' इति पाठः
  2. 'शरैः' इति पाठः