पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
किरातार्जुनीये

निरस्तः सोऽर्जुन उत्सादितमुत्पाटितमुद्यानं यस्य स भूमेः प्रदेशो भूमिभाग इव रिक्तः शून्यः प्रकाशो निःसंबाधश्च । दृश्य इति यावत् । बभूव ॥

स ख[१]ण्डनं प्राप्य पराद[२]मर्षवान्भुजद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्र[३]वेतरेषां पयसामिवाश्मनाम् ॥६०॥

  स इति॥परात्परस्माच्छत्रो:।'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न स्मादादेशः। खण्डनं अङ्गं प्राप्यामर्षवान्सोऽर्जुनो भुजद्वितीयो भुजमात्रसहायः सन्नपि विजेतुमिच्छया द्रवेभ्य इतराणि तेषां द्रवेतरेषां कठिनानां पयसामिव । करकाणामिवेत्यर्थः। अश्मनां संबन्धिनीं परिरुग्णा भग्ना: पादपा यया सा तां वृष्टिं ससर्ज । अश्मभिर्जघानेत्यर्थः ॥

नी[४]रन्ध्रं परिगमितें क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥६१॥

  नीरन्ध्रमिति ॥ शिलाविताने शिलाजाले भूतानामधिपतिना शिवेन पृषत्कैर्बाणैः क्षयं परिगमिते नीते सतीन्द्रसूनुरर्जुन उच्छ्रायेणोत्सेधेन स्थगितमाच्छादितं नभोदिशामन्तरालं च येन तन्नीरन्ध्रं सान्द्रम् । रोहन्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः। क्षितौ रुहा वृक्षास्तेषां जालं चिक्षेप प्रेरयामास ।'उच्छ्रायं गमितवति' इति प्रामादिकः पाठः॥

निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम्।
ईशानः सकुसुमपल्लवैर्नगैस्तै[५]रातेने बलिमिव रङ्गदेवताभ्यः ॥६२॥

  निःशेषमिति ॥ ईशानः शिवः । शानच्प्रत्ययः। निःशेषं यथा तथा शकलितानि वल्कलानि त्वचोऽङ्गानि शाखाः सारो मज्जा च येषां तैर्भुवमभितः कषायो यो रागः। स्वरसेन रञ्जनमिति यावत् । 'रागे क्वाथे कषायोऽस्त्री' इति वैजयन्ती । तेन चित्रां विचित्रवर्णां कुर्वद्भिः सकुसुमपल्लवैस्तैर्नगैर्वृक्षै रङ्गे रणरङ्गे या देवतास्ताभ्यो बलिं पूजामिवातेने ॥

उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभंभुजाभ्यामाजघ्ने विषमविलोचनस्यवक्षः ॥६३॥

  उन्मज्जन्निति ॥ गाण्डीव्यर्जुन उन्मज्जन्नुत्तरन्मकरो जलग्राहविशेषोऽमरापगाया गङ्गाया इव बाणनद्या बाणप्रवाहाद्वेगेन प्रतिमुखमभिमुखमेत्यागत्य कनकशिलानिभम् । कनकग्रहणं काठिन्यातिशयद्योतनार्थम् । विषमविलोचनस्य त्र्यम्बकस्य वक्षो हृदयं


  1. 'खण्डनां' इति पाठः
  2. 'अमर्षात्' इति पाठः
  3. 'जवने मेघः' इति पाठः
  4. 'नीरन्ध्रे परिगमिते;'नीरन्ध्रैरुपगमिते' इति पाठौ
  5. 'वनौघै:' इति पाठः