पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
सप्तदशः सर्गः।

ण्यमित्यर्थः। कुतः। व्यवसायसिद्धेर्युद्धोद्योगसिद्धे: सीमानमवधिम्। साधकतममित्यर्थः। अन्यैः परैरतिदुस्तरं दुरतिक्रमं तेजःश्रियां प्रतापसंपदामाश्रयम् । हेतुमित्यर्थः । उत्तमासिं महाखड्गम् । 'सन्महत्-' इत्यादिना समासः । साक्षादहंकारं सविग्रहमभिमानमिवाललम्बे जग्राह ॥

शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्र[१]विचारमार्गै: ।
हस्तेन निस्त्रिंशभृता स[२]दीप्तः साकांशुना वारिधिरूर्मिणेव ॥५६॥

  शरानिति ॥ अनवकर्मागर्ह्यकर्मा । 'अवद्यपण्य-' इत्यादिना निपातः । शरानवद्यन्खण्डयन्वीरो निस्त्रिंशभृता खड्गयुक्तेन हस्तेन सार्काम्शुनार्काम्शुसहितेनोर्मिणा तरङ्गेण वारिधिरिव दीप्तो दीपितः सोऽर्जुनः प्रविचारमार्गै: स्वङ्गिनां गतिभेदैश्चित्रं यथा तथा चचार॥

यथा निजे वर्त्मनि भाति भाभिश्छायामयश्चाप्सु सहस्ररश्मिः ।
तथा न[३]भस्याशु र[४]णस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥५७॥

  यथेति ॥ भामिर्दीप्तिभिरुपलक्षितः । 'स्युः प्रभारुग्रुचिस्त्विइभाभाश्छविद्युतिदीप्तयः' इत्यमरः । सहस्ररश्मिरर्को यथा निजे वर्त्मनि नभसि च्छायामयः प्रतिबिम्बरूपः सन्नप्सु स्पष्टद्विमूर्तिर्भाति तथा सोऽर्जुनो नमस्याकाशे रणस्थलीषु च स्पष्टे द्वे मूर्ती यस्य स स्पष्टद्विमूर्तिः सन् भूतैर्गणैर्ददृशे दृष्टः । यथैकोऽर्को नभस्यप्सु चानेक इव दृश्यते तथा सोऽपि दिवि भुवि चाशुसंचाराद्यौगपद्यभ्रमादेवैकोऽप्यनेक इव गणैर्दष्ट इत्युत्प्रेक्षा ।।

शि[५]वप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपातं पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥५८॥

  शिवेति ॥ शिवेन प्रणुन्नः क्षिप्तस्तेन शिलीमुखेन त्सरप्रदेशान्मुष्टिप्रदेशमवधिं कृत्वा । 'त्सरुः खङ्गादिमुष्टौ स्यात्' इत्यमरः । अपवर्जिताङ्गो लूनविग्रहोऽसिः खड्गस्तस्यार्जुनस्य पाणेः कराद्धनस्य मेघस्य वप्रात्तटाद्वैद्युतो विद्युत्संबन्ध्यग्निरिव ज्वलन्पपात॥

आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽव[६]धूतः।
रिक्तः प्रकाशश्च बभूव भूमेरु[७]त्सादितोद्यान इवं प्रदेशः ॥५९॥

  आक्षिप्तेति ॥ आक्षिप्तान्यपहृतानि चापावरणेषुजालानि धनुर्वर्मबाणसमूहा यस्य स छिन्नोत्तमासिर्लूनमहाखड्गो मृधे रणे। 'मृधमास्कन्दनं संख्यम्' इत्यमरः । अवधूतो


  1. 'प्रतिचार' इति पाठः
  2. 'अतिदीप्तः' इति पाठः
  3. 'भ्रमन्नाशु' इति पाठः
  4. 'वनस्थलीषु' इति पाठः
  5. पुस्तकान्तरे प्रथमद्वितीयपादयोर्व्यत्ययः
  6. 'अभिभूतः' इति पाठः
  7. उत्पाटित,; उत्सारित' इति पाठौ