पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
किरातार्जुनीये

साम्यं गतेनाशनिना मघोनः श[१]शाङ्कखण्डाकृतिपाण्डुरेण ।
शंभुं बिभित्सुर्धनुषां जघान स्त[२]म्बं विषाणेन महानिवेभः॥५१॥

  साम्यमिति ॥ मघोन इन्द्रस्याशनिना वज्रेण सह साम्यं गतेन वज्रकल्पेन शशाङ्कस्य खण्डं शकलं तस्येवाकृतिर्यस्य । तद्वद्वक्रमित्यर्थः। पाण्डुरं च। तद्वदेवेति भावः । तेन शशाङ्कखण्डाकृतिपाण्डुरेण धनुषा शंभुं बिभित्सुर्भेत्तुमिच्छुः सन् । महानिभो गजो विषाणेन दन्तेन स्तम्बमिव । जघान ॥

रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः।
समुद्धता सिन्धुरनेकमार्गा प[३]रे स्थितेनौजसि जह्नुनेव ॥५२॥

  रयेणेति ॥रयेण वेगेन पतन्ती सा चापयष्टिर्भवस्य संसारस्योद्भव उत्पत्तिर्यस्मा- त्तेनभवोद्भवेनेश्वरेण पर ओजसि परमे ज्योतिषि स्थितेन जह्नुना राजर्षिणा समुद्ध- तात्युत्कटानेकमार्गा त्रिस्रोताः सिन्धुर्गङ्गेवात्मनि संनिदधे सम्यङ्निहिता । श्रन्तर्निलायितेत्यर्थः॥

विकार्मुकः कर्मसु शोच[४]नीयः परिच्युतौदार्य इवोपचारः।
विविक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥५३॥

  विकार्मुक इति ॥ विकार्मुको भग्नचापोऽत एव परिच्युतौदार्यो दानवर्जित उपचारः सत्कार इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्योऽपूज्यश्च सत्त्वावष्ट- म्भेनाभग्नचित्तत्वाच्च सोऽर्जुनः शुलभृता शिवेन सलीलं सहेलं यथा तथादूरपातैर- तिगाढप्रहारैः पत्रिभिः शरैर्दूरमत्यन्तं विचिक्षिपे नुन्नः ॥

उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः।
[५]पोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥५४॥

  उपोढेति ॥ उपोढमासन्नं कल्याणफलमस्त्रलाभरूपं स्वर्गादिकं च यस्य स वीरव्रतमा- हवादनिवृत्तिरूपं तीव्रं तपश्चाभिरक्षन्पालयन्पुण्यो यो रण एवाश्रमस्तत्र तिष्ठतीति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तो मुनिरर्जुनः कश्चित्तपस्वी च तैः शिवस्य महादेवस्येषुभिः शरैर्जगोपवासैरिव तेपे तप्तः । तपतेः कर्मणि लिट् ॥

ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः।
तेजःश्रियामाश्रयमुत्तमासिं साक्षादहंकारमिवाललम्बे ॥५५॥

  तत इति ॥ ततश्चापान्तर्धानानन्तरं सोऽर्जुनोऽग्रभूमिं विपदि गन्तव्यस्थानम् । शर-


  1. 'शशाङ्कलेखा' इति पाठः
  2. 'स्तम्भम्' इति पाठः
  3. 'परिस्थितेन' इति पाठः
  4. 'शोच्यपूज्य'
    इति पाठः
  5. 'महोपवासैः; 'व्रतोपवासैः' इति पाठौ