पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
सप्तदशः सर्गः।

अचित्ततायामपि नाम युक्तामनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगम् ॥४७॥

  अचित्ततायामिति ॥ तदानीं कवचपतनसमये महीं गताविषुधी निषङ्गावचित्तता- यामप्यचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्तां योग्याम् । नाम किल । अर्किचित्करत्वादिति भावः । अनूर्ध्वतामवाङ्मुखत्वं प्राप्यं चेतनया प्राणिसाधारणज्ञानेनेव योगं संबन्धं विवव्रतुरिवेत्युत्प्रेक्षा । अचेतनत्वेऽप्यवाङ्मुखत्वादिचेतनधर्मयोगादिति भावः॥

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥४८॥

  स्थितमिति ॥ विशुद्धे निर्मले नभसीव सत्त्वे सत्त्वगुणे स्थितं तपोवीर्यमयेन तपोवीर्याभ्यामागतेन धाम्ना तेजसा युक्तं तमर्जुनमीशस्त्वष्टा विश्वकर्मा विवस्वन्तं सूर्यमिवाजस्रं निरन्तरं शस्त्राभिघातैः शस्त्रकर्षणैरुल्लिलेख ततक्ष ॥

संरम्भवेगोज्झितवेद[१]नेषु गात्रेषु बा[२]धिर्यमुपागतेषु ।
मु[३]नेर्बभूवा[४]गणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ॥४९॥

  संरम्भेति ॥ संरम्भवेगेन संभ्रमातिशयेनोज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यं स्तैमित्यमुपागतेषु सत्सु न गणिता इषुराशयो येन तस्यागणितेषुराशेर्मुनेरर्जुनस्यात्ममन्युः स्वकोपो लोहस्य विकारो लौहः कार्ष्णायसः तिरस्क्रियत आच्छाद्यतेऽनेनेति तिरस्कार: कञ्चुक इव बभूव । रोषवशान्न किंचित्प्रहारंदुःखमज्ञासीदित्यर्थः । क्रोधैकवर्मणां वीराणां किमन्यैर्लोहभारैरिति भावः ॥

  अथ युग्मेनाह----

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदि[५]ग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पा[६]र्ष्णिघातैः ॥५०॥

  तत इति ॥ ततोऽनन्तरमनुपूर्वौ पूर्वमनुगतौ गोपुच्छाकारावायतौ दीर्घौ वृत्तौ वर्तुलौ च बाहू यस्य स श्रीमाञ्शोभावान्क्षरल्लोहितदिग्धदेहः स्त्रवद्रुधिरलिप्तगात्रः पार्ष्णिघातैश्चरणतलाघातैः। 'तन्द्रन्थी घुटिके गुल्फौ स्त्रियां पार्ष्णिरधस्तयोः' इत्यमरः । क्षितिं विधुन्वन्प्रकम्पयन्निव वेगेनास्कन्द्याभिद्रुत्य विमुक्तनादः सोऽर्जुनः ॥


  1. 'चेतनेषु' इति पाठः
  2. 'चाधैर्यम्' इति पाठः
  3. 'बभूव तस्य' इति पाठः
  4. अगणिताहितेषोः' इति पाठः
  5. 'धातुदिग्धः; 'पङ्कदिग्धः इति पाठौ
  6. 'पार्ष्णिभागैः इति पाठः