पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
किरातार्जुनीये

ग्रहणाद्भावे तव्यप्रत्ययः । साहसं न क्षमं न योग्यम् । भर्त्रा संभावितस्यावसरेऽनुपकर्तु- रनुजीविनस्तत्सांमुख्यमनुचितमित्यर्थः ॥

तं शंभुराक्षिप्तमहेषुजालं लौहैः शरैर्मर्मसु निस्तुतोद।
हृतोत्तरं तत्त्ववि [१] चारमध्ये व[२]क्तेव दोषैर्गुरुभिर्विपक्षम् ॥४३॥

  तमिति ॥ शंभुराक्षिप्तान्याहतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हृतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता वादी गुरुभिर्दोषैर्निग्रहस्थानैरिव लौहैर्लॊहमयैः शरैर्मर्मसु निस्तुतोद व्यथयामास ॥

जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहै[३]मलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डमिवाम्बुदस्य ॥४४॥

  जहारेति । किं च । असान्मुनेरचिरेण शीघ्रं ज्वलद्भिर्मणिभिर्द्योतिता हैम्यः सौवर्ण्यो लेखा यस्य तत्तथोक्तं वर्म कवचम् । चण्डो मरुत्पवनः पतङ्गात्सूर्यादेकनीलं केवलं कृष्णवर्णम्। 'एके मुख्यान्यकेवलाः'इत्यमरः। तडित्वतस्तडिद्युक्तस्याम्बुदस्य खण्डमिव। जहार। तदा भगवन्मायया मुक्तकञ्चुको मुनिर्मेघनिर्मुक्तः सूर्य इव दिदीप इति भावः॥

  अथ युग्मेनाह-

विकोशनि[४]र्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विषाबद्धरुषः स[५]मक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥४५॥

  विकोशेति ॥ सोऽर्जुनः । तनुं त्रायत इति तनुत्रं वर्म।'आतोऽनुपसर्गे कः' इति कप्रत्ययः ॥ तेन विना । विकोशः कोशादुद्धृतो निर्धौततनुः शाणोल्लीढमूर्तिः । ततो विशेषणसमासः ॥ तस्य विकोशनिर्धौततनोर्महासेर्महाखड्गस्य तथा त्वचि विच्युतायां सत्यां फणावतश्च मुक्तकञ्चुकस्याहेश्च प्रतिद्विपे प्रतिगज आबद्धरुषो बद्धकोपस्य समक्षं प्रतिगजस्याग्र आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च ॥

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रु[६]चिं स भेजे[७]॥४६॥

  विबोधितस्येति ॥ धनानां ध्वनिना गर्जितेन विवोधितस्य । शैलरन्ध्रात्कंदादपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च । तथा निरस्तधूमस्य गतधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे। एतेनास्य तीक्ष्णत्ववैरनिर्यातनत्वरणदुर्मदत्वमनस्वित्वतेजस्वित्वान्युक्तानि ।अत्र रुचिमिवरुचिमितिसादृश्याक्षेपादसंभवद्वस्तुसंबन्धी निदर्शनालंकारोमालया संसृष्टः॥


  1. 'विचारमार्गे, 'विचारणायाम्' इति पाठौ
  2. 'वादीन' इति पाठः
  3. 'हेमलेखम्' इति पाठ:
  4. 'निर्धूत' इति पाठ:
  5. 'सरोषम्' इति पाठः
  6. 'रुचम्' इति पाठः
  7. 'लेभे' इति पाठः