पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
सप्तदशः सर्गः।

  आघट्टयामासेति ॥ अस्य मुनेरग्रं चासावङ्गुलिश्चेत्यग्राङ्गुलिः । 'हस्ताग्राग्रहस्तयोर्गुण- गुणिनोर्भेदाभेदात्' इति वामनः। विधेयमार्गे कर्तव्यान्वेषण उत्सुकस्य प्रवृत्तस्य गां भुवं जिगीषोर्नायकस्य मतिर्बुद्धिर्नयः षाड्गुण्यं प्रयोग उपायस्तौ नयप्रयोगाविव तूणौ निषङ्गौ सावेगं ससंभ्रमम् । 'इष्टानिष्टागमाज्ञाने आवेगश्चित्तसंभ्रमः' इति शाश्वतः। गतागताभ्यां यातायाताभ्यामावापोद्वापाभ्यां चाघट्टयामास । अन्यत्र तु वितर्कयामास । शरग्रहणाय पुनः पुनस्तूणयोः पाणिं व्यापारयामासेत्यर्थः ॥

बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥३९॥

  बभारेति ॥ शून्याकृतिरिष्टनाशान्निस्तेजस्करूपोऽर्जुनस्तौ वीतमहेषुजालौ वीतानि गतानि महेषुजालानि ययोस्तौ महेषुधी महानिषङ्गौ । बिजिह्म: शून्यो लोको युगान्ते संशुष्कजलौ। 'शुषः कः' इति निष्ठातकारस्य ककारः। पूर्वापरावम्बुराशी समुद्राविव । बभार॥

तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततया[१]नुतेपे ।
खामापदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिप[२]क्षम् ॥४०॥

  तेनेति ॥ पार्थस्तयोस्तूणयो रिक्ततया हेतुना यथानुतेपे शुशोच तथा तेनानिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच । तथा हि । सन्तः स्वमापदं प्रोज्झ्य विसृज्य विपत्तिमग्नमुपकारिणां पक्षं वर्गं शोचन्ति । स्वव्यसनापेक्षया परकीयव्यसनमेव सतामनुतापकमित्यर्थः॥

प्रतिक्रियायै विधुर: स तस्मात्कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारातूणीमुखान्मित्रकुलादिवार्यः ॥४१॥

  प्रतीति। प्रतिक्रियायै विधुरः प्रतिकर्तुमसमर्थः। 'तुमर्थाच्च भाववचनात्'इति चतुर्थी। अर्जुनस्य स हस्तः पाणिः । पराङ्मुखत्वेऽपि तत्कालवैमुख्येऽपि कृतोपकारात्तस्मात्तूणी- मुखान्मित्रकुलादार्य: साधुः कृतज्ञ इव । 'आर्यः साधुकुलीनयोः' इति विश्वः। कृच्छ्रेण महाकष्टेन विश्लेषमियाय । गौरादित्वात्तूणशब्दान्ङीप् ॥

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीमुपकारिणीव ।
संभावनायाम[३]धरीकृतायां पत्युः पुरः साहसमासितव्यम् ॥४२॥

  पश्चादिति ॥ तदानीं भर्तुः स्वामिनः । कर्तरि षष्ठी । पश्चात्क्रिया पृष्ठतः करणं तूण- युगस्योपकारिणीवोपकारिकेव जज्ञे जाता। तथा हि । संभावनायां स्वयोग्यतायामध- रीकृतायामफलीकृतायां पत्युः स्वामिनः पुरोऽग्र आसितव्यमासितं स्थितिः । बहुल-


  1. 'शुशोच' इति पाठः
  2. 'वर्गम्' इति पाठः
  3. 'विफलीकृतायाम् ;'ह्यधरीकृतायाम्' इति पाठौ