चिदेव मर्मानामृशन्तोऽस्पृशन्तः शराः सुहृन्मित्रं सोऽपि प्रियैषी तेन प्रयुक्ता उच्चारिता नर्मवादाः प्रियवादा इव मुनेरर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः ॥
अस्त्रैः समानामतिरेकिणीं वा पश्यन्नि[१]षूणाम[२]पि तस्य शक्तिम् । |
अस्त्रैरिति ॥ अस्त्रैः स्वायुधैः समानां तुल्यामतिरेकिणीं ततोऽधिकां वा तस्य मुनेरिषूणामपि शक्तिं पश्यन्विषादेनोत्साहभङ्गेन वक्तव्यानि निवाच्यानि बलानि सैन्यानि यस्य स प्रमाथी शत्रुमर्दन इन्दुमौलिर्महादेवः स्वं बलमात्मीयं महिमानमाललम्बे स्वसामर्थ्यमवलम्बितवान् ।
ततस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । |
तत इति ॥ ततो महिमप्रादुर्भावानन्तरं देवस्तपोवीर्याभ्यां समुद्धतस्य प्रगल्भस्य समर एवार्णवस्तस्य पारमन्तं यियासोर्जिगमिषोर्जिष्णोरर्जुनस्याखिलानि महेषुजालानि समग्रबाणसमूहानर्क: सूर्यः पयाम्सीव जलानीव समाचचाम संजहार ।
रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपपात पाणिः। |
रिक्त इति ॥अथ बाणान्तर्धानानन्तरमर्जुनस्य पाणिः करो रिक्ते बाणशुन्ये निषङ्गचक्रे तूणीरमुखेऽन्यद्विपेन गजान्तरेणापीतजले पीततोये नगस्याचलस्याश्मरन्ध्रे शिलागर्ते। प्रदर इत्यर्थः । सतर्षं सतृष्णं यथा स्यात्तथा मतङ्गजस्य पाणिर्लक्षणयां कर इव सविस्त्रम्भं सन्त्येव बाणा इति सविश्वासं निपपात ॥
च्युते स तस्मिन्निषुधौ शरार्थाद्धस्तार्थसारे सहसेव बन्धौ । |
च्युत इति ॥शरा एवार्थो धनं तस्माच्च्युते भ्रष्टे तस्मिन्निषुधौ निषङ्गे सहसा झटिति ध्वस्तार्थसारेऽकाण्डे नष्टधनसारे बन्धाविव तत्काले मोघो वितथःप्रणयः प्रीतिर्यस्य सः। तत्कालकृतव्यर्थप्रार्थनः । पूर्वं कृतार्थ एवेति भावः । स पाणिः । निर्वाच्यतां कृतज्ञत्वादपवादाहित्यं कामयत इति निर्वाच्यताकामः । शीलिकामिभक्ष्याचरिभ्यो णः। स इवेत्युत्प्रेक्षा । आभिमुख्यं प्रयेदे । यथा कश्चित्कृतज्ञस्तत्कालेऽकृतोपकारमपि बन्धुं पूर्वोपकारस्मरणात्पुनः पुनरनुबध्नाति तद्वदित्यर्थः ।
आघट्टयामास गतागताभ्यां सा[४]वेगमग्राङ्गुलिरस्य तुणौ । |