अलमिति ॥ ऋजुतावक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेनालंकृतानां गुरुभिर्धनुर्विद्या- गुरुभिर्धर्मशास्त्रगुरुभिश्चोपदिष्ठां दर्शितां गतिं गमनमाचारं चास्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिवापर्वण्यग्रन्थौ । अन्यत्राप्रस्तावे। अकाण्ड इत्यर्थः । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिजित्वरस्य च । 'जिष्णुः शक्रे धनंजये। जित्वरे' इति विश्वः। धृतिं धैर्यमुन्ममाथ ।जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ।।
बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः। |
बाणेति॥ बाणच्छिदः पार्थशरच्छेदिनस्ते स्मरारेर्विशिखा अवाङ्मुखीभूतफला विमुखाग्रा विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः क्रियाग्रहणाच्चतुर्थी । पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारमापुः । अत्युत्कटं कर्म सद्यः फलं दर्शयतीति भावः ॥
पुनरर्जुनस्य जयमाह---
चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान्भवमार्गणानाम् । |
चित्रीयमाणानिति ॥ अरातिरर्जुनोऽतिलाघवेनातिशीघ्रत्वाच्चित्रीयमाणांश्चित्रमाश्चर्यं कुर्वाणान्। 'नमोवरिवश्चित्रङः क्यच्' । भवमार्गणानां प्रमाथिनः खण्डयतस्तान्बाणान्। समाकुलायाः संक्षुभिताया ध्वजिन्या: सेनाया हृदयेषु दूरं गाढं निचखान निखातवान् ॥
तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन । |
तस्येति । तस्यार्जुनस्य पराक्रमेऽतियत्नाद्धेतोरन्योन्यस्य विशेषणेनातिशयकरणेना- तिरिच्यमान उत्कृष्यमाणे सति पुरां हन्ता त्रिपुरविजयी हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम् । 'पृषत्कबाणविशिखाः' इत्यमरः । निदाघे भवो नैदाघो मेघोऽम्वुवाहोऽम्बु जलमिव निरास मुमोच। अस्यतेर्लिट् । निदाघग्रहणं वर्षणस्यातितीव्रत्वद्योतनार्थम् ॥
अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन। |
अनामृशन्त इति ॥ प्रियैषिणा प्रियचिकीर्षुणा शिवेनानुप्रहिताः प्रयुक्ता अत एव क्व-