पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
किरातार्जुनीये

सव्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के ।
[१]र्यायसंपादितकर्णतालं यन्ता गजं व्यालमिवापराद्धः ॥२५॥

  सव्येति ॥ पार्थः सव्यापसव्याभ्यां वामदक्षिणगतिभ्यां ध्वनितं नादितमुग्रचापं येन तं किराताधिपम् । अपराद्धः प्रमत्तो यन्ता पर्यायेणायौगपद्येन संपादितः कर्णयोस्ताल आस्फालनं येन तं व्यालं दुष्टम् । 'भेद्यलिङ्गःशठे व्यालः' इत्यमरः । गजमिवाशशङ्के । तच्चापचातुर्यदर्शनाद्दुर्जयः कोऽप्ययमनर्थकरश्चेति शङ्कित्तवानित्यर्थः ॥

निजघ्निरे त[२]स्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
[३]र्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवा[४]म्बुराशेः॥२६॥

  निजघ्निर इति ॥ हरेषुजालैस्तस्यार्जुनस्य पतन्त्यागच्छन्ति शिलीमुखानां शराणां वृन्दानि । ऊर्जस्विभिः प्रबलैरम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेनागतानि यादांसीव निजघ्निरे हतानि ॥

विभेद[५]मन्तः पदवीनिरोधं वि[६]ध्वंसनं चाविदितप्रयोगः।
ने[७]तारिलोकेषु करोति यद्यत्ततच्चकारास्य शरेषु,शंभुः ॥२७॥

  विभेदमिति ॥ अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एवं प्रतिय- न्धनमन्यत्र त्वासारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गलुण्ठनदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुरविदितप्रयोगःसंवृतमन्त्रत्वादविज्ञातोपायप्रयोगः सन्नरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽज्ञातबाणसंधानमोक्षादिकः सन्नस्यार्जुनस्य शरेषु चकार कृतवान् । कर्तरि लिट् । श्लेषालंकारः ॥

सोढावगीतप्र[८]थमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥२८॥

  सोढेति ॥ सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वोत्सृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः । अतएव वेम्गितया वेगेन पतद्भिर्गतिं कुर्वद्भिः। अतएव छिन्नैरपि त्रासिता वाहिन्यो यैस्तैरत एव कृताथैरिव बाणैः पेते । भावे लिट् । वस्तुतस्त्वकृतार्था एवेत्यर्थः ॥

अलंकृतानामृजुतागुणेन गुरूपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥२९॥


  1. 'वैषम्य' इति पाठः
  2. 'चास्य' इति पाठः
  3. 'तेजस्विमिः' इति पाठः
  4. 'अर्णवस्य' इति
    पाठः
  5. 'विच्छेदम्' इति पाठः
  6. 'प्रध्वंसनम् इति पाठः
  7. 'जेता' इति पाठः
  8. 'प्रमथायुधस्य'इति पाठः