स सायकान्साध्वसविप्लुतानां क्षिपन्परेषामतिसौष्ठवेन । |
स इति ॥ अतिसौष्ठवेनातिलाघवेन सायकाञ्शरान्क्षिपन्सोऽर्जुनः साध्वसेन विप्लुतानां भ्रान्तानां परेषां द्विषां दोषेण काचकामलादिरोगेणावृतलोचनानां दुष्टचक्षुषां शशीव पृथग्विभिद्यमान आवभासे । यथा सदोषचक्षुषैकश्चन्द्रो नानेव लक्ष्यते तद्वदेकोऽप्यनेक इव दृष्ट इति भावः ॥
क्षोभेण तेनाथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य । |
क्षोभेणेति ॥ अथ गणाधिपानां संबन्धिना तेन क्षोभेण कम्पेनेश्वरस्याकृतिराकारो मूर्तिर्महाहृदानां तरंगकम्पेन छायामयस्य प्रतिबिम्बरूपस्य दिनस्य कर्तुर्दिवाकरस्या- कृतिरिव भेदं विकारं ययौ प्राप । स्वयं निर्विकारोऽपि प्रतिमासूर्यवत्परसंसर्गात्तथा प्रतीयत इत्यर्थः ॥
यदि देवोऽपि विकृतस्तर्हि कोपः किं न कृतः। तत्राह-
प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन्पुरुषे वि[२]कारः । |
प्रसेदिवांसमिति ॥प्रसेदिवांसमर्जुनं प्रति प्रसन्नचित्तं तं देवं कोपो नाप न प्राप। तत्राप्यनुग्रहं ययाविति भावः । तत्र हेतुः-परस्मिन्पुरुषे परात्मनि देवे । स्वतो निर्विकार इत्यर्थः । विकार: कोपरूपः कुतः। न कुतश्चिदित्यर्थः । ननु तस्य निर्विकारस्य कथं बहिराकारभेदः कारणाभावादिति चेत्तन्न विद्म इत्याह-इदं पूर्वोत्तमाकारवैषम्यं च भेजे । किंतु केनापि कारणेन न कुप्यतीत्यर्थः । ननु निर्विकारे कुत आकारभेदस्तत्राह- महतां वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका हि ॥
वैषम्यमेवाह-
विस्फार्यमाणस्य त[३]तो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य । |
विस्फार्यमाणस्येति ॥ ततोऽनन्तरं भूतानि भर्त्रा भूतपतिनां । भृञस्तृच्प्रत्ययः। अत एव 'न लोक--' इत्यादिना षष्ठीप्रतिषेधः । भुजाभ्याम् । कर्तृकरणयोस्तृतीया । विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य संबन्धिनीं स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाकृतिर्यस्यास्तां ज्यां धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव ददृशुः। द्विधाभावाद्भयंकरत्वाच्चेति भावः ।