पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
किरातार्जुनीये

व्यथते बिभेति । व्यथिताद्भीतात्तेजः प्रध्वंसं नाशमेति । तेजोविहीनं दर्प उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति त्यजति ।

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्र[१]तिद्विपस्येव मतङ्गजौघः ॥१७॥

  तत इति ॥ ततो दर्पहान्यनन्तरमस्तौ क्षयं गतौ मदावलेपौ मदगर्वौ यस्य सोऽरि- लोको गन्धेन मदगन्धेनैव जेतुर्जयनशीलस्य । शीलार्थे तृच्प्रत्ययः । प्रमुखागतस्याभि- मुखागतस्य प्रतिद्विपस्यान्यो मतङ्गजौघो मत्तगजसमूह इव जिगीषोर्नायकस्य जय्यतायाः पदवीं प्रयाति प्राप्नोति । विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः । 'क्षय्यजय्यौ शक्यार्थे' इति निपातः । अत्र श्लोकद्वये ज्यायसि पराक्रमकरणादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वकथनात्कारणमालाख्योऽलंकारः । लक्षणं तूक्तम् ।

एवं प्रतिद्धन्द्विषु तस्य कीर्ति मौ[२]लीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शंभुरनुक्रमेण ॥१८॥

  एवमिति ॥ एवमुक्तरीत्या प्रतिद्वन्द्विषु प्रत्यर्थिषु मध्ये तस्यार्जुनस्य मौलीन्दुलेखाविशदां कीर्ति विधास्यन्करिष्यन्ननुक्रमेणाविपर्यासेन पर्यायेण त्रयोऽवसादो भङ्गश्च तौ जयावसदौ यस्यां तां पर्यायजयावसादां रणक्रियामियेषेच्छति स्म । जयानन्तरं भङ्गो भङ्गानन्तरं जय इति पयोयार्थः । तस्य विपर्यासोऽन्यतरनैरन्तर्यं तदभावोऽनुक्रम इत्यपौनरुक्त्यम् ॥

मुनेर्विचित्रैरिषुभिः स भूयान्निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥१९॥

  मुनेरिति ॥मुनर्विचित्रैरिषुभिः स भूयानसंख्यो भूतपतेर्बलौघ आत्मलाभेन जन्मना सह समुत्पतद्भिराविर्भवद्भिः। आजन्मसिद्धैरित्यर्थः । जातयो गोत्वमनुष्यत्वादयः । स्वभावा जातिनियता धर्मास्तैर्जातिस्वभावैर्जीवलोकः प्राणिजातमिव वशं निन्ये नीतः। कर्मणि लिट् । प्राणिनो जातिधर्मानिव गणा मुनिशरान्नातिक्रमितुं शेकुरित्यर्थः॥

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥२०॥

  वितन्वत इति ॥ त्रस्तानि सैन्यानि संततवेपथूनि निरन्तरकम्पानि गवां कुलानि वृन्दानि प्रवर्षतो वृष्टिं कुर्वतः क्षपाघनस्य रात्रिमेघस्येव शरैर्योऽन्धकारस्तं वितन्वतो विस्तारयतस्तस्य मुनेः संबन्धिनं रवं शरवर्षघोषं निशेमुःशुश्रुवु:। न तु किंचिद्ददृशुः। चेष्टा तु दूरापास्तेति भावः ॥


  1. 'गन्धद्विपस्य' इति पाठः
  2. 'बालेन्दु' इति पाठः