उमेति ॥ पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखा बाणा उमापतिं शिवमभ्युत्थितस्याभ्युन्नतस्याद्रिपतेर्नितम्वं कटकम् । हेमन्ते भवस्य हैमनस्य। 'सर्वत्राण्च तलोपश्च' इत्यण्प्रत्ययः। तकारलोपश्च । अर्कस्य पादा रश्मय इव । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न व्यथयांबुभूवः । 'मध्ये स्थितस्यासुमतां समूहमर्कस्य' इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां प्राणिनां समूहमिवेति न दुःखमुत्पादयामासुरिति योजना ॥
संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् । |
समिति ॥ गणानां पतिः शिवस्तीव्रं तस्यार्जुनस्य पराक्रमं वप्रे रोधस्यानतस्य परिणतस्य । तटप्रहारिण इत्यर्थः । सुरद्विपस्यासह्यं विषाणभेदं दन्तप्रहारं हिमवानिव संप्रीयमाणः संहृष्यन्ननुबभूवानुभवति स्म । तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्चेति भावः ।।
तस्मै हि भा[१]रोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् । |
तस्मै हीति ॥ तस्मै पार्थाय भारस्य भूभारस्योद्धरण उद्वहने समर्थं प्रतापं बाहुमिव । अवष्टम्मतयेति शेषः । अन्यथा भारोद्वहनस्य दुष्करत्वादिति भावः । 'स प्रतापःप्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन देवेन सोऽभिभवोऽर्जुनपरिभवस्तदानीं चिरं विषेहे सोढः । वात्सल्यादिति भावः ॥
अथ त्रिभिर्भगवदभिप्रायमाविष्कुर्वम्श्चतुर्भिः कालापकमाह-
प्रत्याहतौजाः कृ[३]तसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति । |
प्रत्याहतेति ॥ प्रत्याहृतौजाः परेण प्रतिहतबलः सन्नपि कृतसत्त्ववेगः कृतोत्साहा- तिशयः सन्यः पुमाञ्ज्यायसि स्वस्मादप्यधिके पराक्रमं तनोति तस्य पुंसो भानोरर्कस्य तेजांसीव वीर्येण शौर्येण ज्वलितानि प्रकाशितानि यशांसि निष्पतन्ति । उद्भवन्तीत्यर्थः। हीनस्याधिकाभियोगो यशस्कर इति भावः ।।
ततः किमित्यत आह-
दृष्टावदानाद्व्यथतेऽरिलो[४]कः प्रध्वंसमेति व्यथिताच्च तेजः। |
दृष्टेति ॥ दृष्टमवदानं महत्कर्म यस्य तस्मादृष्टावदानाद्दृष्टपौरुषादरिलोकः शत्रुजनो