पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
किरातार्जुनीये

यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य रोषतप्तं मुखं निदाघो घर्मों निर्वापयिष्यञ्शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा। प्रस्रापयामास सिषेच । स्वेदं जनयामासेत्यर्थः। स्नातेर्मित्वविकल्पत्वाद्ध्रस्वविकल्पः ॥

क्रोधान्धकारान्तरितो रणाय भ्रू[१]भेदरेखाः स बभार तिस्रः।
[२]नोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाम्शुराजीरिव ति[३]ग्मरश्मिः ॥९॥

  क्रोधेति ॥क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृत- स्तिग्मरश्मी रविर्वृष्टेः प्रभवाय वर्षणाय तिस्र ऊर्ध्वाम्शूनां राजीरिव । अर्कस्योर्ध्वाम्शु- रेखोदयो वृष्टिलिङ्गमित्यागमः । रणाय रणप्रवृत्तये तिस्त्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥

[४]प्रध्वनय्यम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥१०॥

  स इति ॥ सोऽर्जुनोऽम्बुदवन्नदतीत्यम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन करेण प्रध्वनय्य ध्वनयित्वा शंभोर्बलानि सैन्या- न्यशरीरोऽनङ्गःकामश्चेतांसि युवमनांसि चिन्ताभिः प्रेयोजनध्यानैरिवेषुभिस्तताप तापयामास । तपतिः सकर्मकः । अत्रेषुशब्दः स्त्रीलिङ्गः। अन्यथोपमानोपमेययोर्भिन्न- लिङ्गतादोषात् । 'पत्री रोष इषुर्द्वयोः' इत्यमरः ।।

सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥११॥

  सद्वादितेति ॥ अभिनिविष्टा शास्त्रनिश्चिता बुद्धिर्यस्य स तस्मिन्नभिनिविष्टबुद्धौ- शास्त्रनिष्टितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकतेव। न हि सम्यगभ्यस्तशास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित्। अन्ये त्वभिनिविष्टबुद्धावाग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टुत्वमिव । न ह्याग्रही हितं गृह्णातीति भावः। विपक्षपाते वीतरागे विषये गुणाभ्यसूया गुणासहिष्णुतेव ।स हि समदर्शी द्विपन्तमपि न द्वेष्टीति भावः।अगोचरेऽवाङ्मनसगोचरे ब्रह्मणि वागिव । 'यतो वाचो निवर्तन्ते अप्राप्य- मनसा सह' इति श्रुतेरिति भावः। शराणां शक्तिः शितिकण्टकाये शिवशरीरे विषये उपरेम उपरता । तस्याक्षोभ्यमहिमत्वादिति भावः । 'विभाषाकर्मकात्' इत्यस्य वैक- ल्पिकत्वात्पक्ष आत्मनेपदम् । मालोपमा ।

उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः।
[५]भ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥१२॥


  1. 'भूभङ्ग' इति पाठ:
  2. 'घनावरुद्धः' इति पाठः
  3. 'धर्मरश्मिः' इति पाठः
  4. 'प्रध्यानयन,'‘स ध्वानयन्' इति पाठौ
  5. 'अभ्युच्छ्रितस्य' इति पाठः