सप्तदशः सर्गः।
अथ पञ्चभिः पार्थं विशेषयन्षड्भि: कुलकमाह-अथेत्यादिभिः ॥
अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु । |
अथजललक्ष्मीप्रत्याकाङ्क्षानन्तरमापदामुद्धरणक्षमेष्वापन्निवारणसमर्थेष्वस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं धैर्यमभिपुष्यन्वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यभवलम्बमान इत्यर्थः । अतएव गुरुश्रीः प्रवृद्धशोभासंपत्तिः । 'पद्मा मा लक्ष्मीः श्रीर्निगद्यते' इति शाश्वतः ॥
भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या। |
भूरीति ॥ पुनश्च । भूरिप्रभावेण महानुभावेन सह रणाभियोगाद्युद्धलाभात्प्रीतस्तदीयवृद्ध्या शत्रुवृद्ध्या विजिह्यो विच्छायश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः। कुतः। सर्पन्प्रसरन्महान्धूमो यस्य सोऽद्रिवह्निरिव स्थितः ॥
तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधैर्यम् । |
तेज इति ॥ पुनश्च । परैररिभिरहार्यमभेद्यं निजं स्वकीयं महत्तेजो वीर्यं मित्रमिव समाश्रित्य । अतएव भीमे भयानकेऽरिरेव दुर्गं तस्मिन्नरिदुर्गे शत्रुसंकटेऽस्खलितस्व- भावमचलशीलमुरु महद्धैर्यं भुजालम्बमिव हस्तावष्टम्भमिवासादयन्प्राप्नुवन् । ईदृशे संकटेऽपि महावीरत्वाद्धैर्यमत्यजन्नित्यर्थः ॥
वंशोचितत्वादभिमानवत्या संप्राप्तया सं[२] प्रियतामसुभ्यः । |
वंशेति ॥ पुनश्च। अभिमानो ममताबुद्धिस्तद्वत्या । विषयतया कर्मणि कर्तृधर्मोपचारः। अभिमानास्पदेनेत्यर्थः । अन्यत्र कुलशीलाद्यभिमानवत्या । वंशोचितत्वात्स्वकुलानुरूपत्वादसुभ्यः प्राणेभ्योऽपि संप्रियतां संप्राप्तया परेण शत्रुणाक्ष्णो: समीपे समक्षसक्ष्यग्रतः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। आदातुं ग्रहीतुमिष्टयादित्सितया । आजिहीर्षितयेत्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्त:।