पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
किरातार्जुनीये

  स्वकेतुभिरिति ॥ पाण्डुरैर्नीलैः पाटलैश्च पाण्डुरनीलपाटलैर्विचित्रैः स्वकेतुभिर्धूमै: समागताः संगताः। अतएव शक्रधनुषः प्रभाभिद इन्द्रधनुर्द्युतिभाजो विभावसोरग्ने- स्त्विषोऽसंस्थितामस्थिरां विचित्रस्य चीनांशुकस्य पट्टवस्त्रविशेषस्य चारुतामादधिरे दधु:॥

जलौघसंमूर्छनमूर्छितस्व[१] नः प्रसक्तविद्युल्लसितैधितद्युतिः।
प्रशान्तिमेष्यन्धृ[२]तधूममण्डलो बभूव भूयानिव तत्र पावकः॥५९॥

  जलौघेति ॥ जलौघानामुदकप्रवाहाणां संमूर्छनेन मेलनेन मूर्छितस्वनःप्रवृद्धघोषः। 'मूर्छनं मेलने प्रोक्तं वृद्धौ मूर्छितमेव वा' इति सज्जनः । प्रसक्तैः संगतैर्विद्युतां तडिल्लतानां लसितैः स्फुरणैरेधिता वर्धिता द्युतिर्यस्य स धृतधूममण्डलो जलाघातात्संभूत- धूमपटलः पावकःप्रशान्तिमेनामिप्यंस्तत्र देशे भूयानिव बभूव । भूयस्त्वस्यास्थायित्वादिवेत्युक्तम् ॥

प्र[३]वृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥६०॥

  प्रवृद्धेति॥प्रवृद्धानां सिन्धोःसमुद्रस्योर्मीणांचयाराशय इव स्थवीयसांस्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवा: शकलास्तैः सरूपतां समानरूपतां प्रपेदिर इत्युपमा ॥

उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥

  उपैतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो नष्टमूलोऽसंशयं यथा तथानुदयाय पुनरनुत्थानाय संक्षयं नाशमुपैति । तथा हि । तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः स हव्यवाहोऽग्निः पराभवं नाशं प्रययौ । विशेषेण सामान्यसमर्थ- नरूपोऽर्थान्तरन्यासः ॥

अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम्।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥६२॥

  अथेति॥अथाग्निनिर्वाणानन्तरंविहितविधेयैः कृतकृत्यैरसितनगस्याञ्जनानितम्बः कटकस्तद्वच्छ्यामभासां घनानां वितानैः पटलैर्मुक्ता द्यौराकाशो वह्निदाहादिवेत्यु-


  1. 'ध्वनिः' इति पाठ:
  2. 'कृश' इति पाठः
  3. 'विवृद्ध' इति पाठः