पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
षोडशः सर्गः।

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिता[१]श्वे ।
पिनाकिनाहूतमहाम्बुवाहमस्त्रं पु[२]नः पाशभृतः प्रणिन्ये ॥५४॥

  लिलिक्षतीति ॥ क्षयकालरौद्रे कल्पान्तकालवद्भयावहे विलोलार्चिषि चलज्ज्वाले रोहिताश्वे ज्वलने । 'रोहिताश्वो वायुसखः' इत्यमरः। लोकं लिलिक्षति लेढुमिच्छति जिघत्सति सतीव । लिहेः सन्नन्ताच्छतृप्रत्ययः । पिनाकिना पुनर्हृता आहूता आकारिता महाम्बुवाहा येन तत्पाशभृतो वरुणस्यास्त्रं प्रणिन्ये प्रयुक्तम् ॥

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः॥५५॥

  तत इति ॥ ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः पर्वतसमप्रान्ताः । 'रोधः स्यात्प्रान्तकूलयोः' इति विश्वः। तडिल्लताभिरालिङ्गिता नीलमूर्तयो नीलाङ्गानि येषां ते पयोमुचो मेघा अधोमुखा आकाशसरिदिव निपतन्तीत्यधोमुखाकाशसरिन्निपातिनीः। 'कर्तर्युपमाने' इनि णिनिः । अपो जलानि प्रसक्तमनुबन्धमविच्छिन्नं यथा तथा मुमुचुः । इतः प्रभृति वंशस्थवृत्तम् ॥

पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेतिरे ॥५६॥

  पराहतेति ॥ पराहता आसाराभिहता अतो ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन्पराहतध्वस्तशिखे । अधिक्षिप्तं प्रहारितं नाशितम् । ताडितमिति यावत् । अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिञ्छिखावतोऽग्नेर्वपुषि स्वरूपे । तप्तेऽयसि लोह इव कृतास्पदाः कृतस्थियंयः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः। प्रथमे पयोनिपाता जलपाता ध्वनिं वितेनिरे विस्तारयामासुः ॥

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्व[३]थनेन फेनताम् ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं ज[४]लैर्वितेने दिवि धूमसंततिः ॥५७॥

  महानल इति ॥ महानलेऽग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पन्ततीति भिन्नसिताभ्रपातिभि:। 'कर्तर्युपमाने' इति णिनिप्रत्ययः। अतएव सद्यः क्वथनेन पाकेन फेनतां समेत्य प्राप्य परिक्षयं नाशं व्रजद्भिर्जलैरार्द्रेन्धनवदार्द्रकाष्ठैस्तुल्यम्।'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । दिवि गगने धूमसंततिर्वितेने विस्तारिता। फेनादिकमार्द्रेन्धनेऽपि तुल्यम् ॥

स्वकेतुभिः पाण्डुर [५] नीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥५८॥


  1. 'लोहिताश्वे' इति पाठः
  2. 'पुरः' इति पाठ:
  3. 'कथनेन' इति पाठः
  4. 'घनैः' इति पाठः
  5. 'विनील' इति पाठः