पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
किरातार्जुनीये

पराक्रमस्य साफल्यं कृत्वापवर्गमवसानं समाप्तिं गते सति । स्वनिवृत्त्या परसाफल्यात्- सफलीकरणोपचारः।समन्युः सक्रोधो जिष्णुरर्जुनोऽनिन्धनस्येन्धनं विनैवोत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकमस्त्रमाग्नेयास्त्रं प्रसभं शीघ्रं समाददे जग्राह ॥

ऊर्ध्वं तिरश्चीनमधश्च कीर्णैार्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तमिच्छन्निव जातवेदाः॥५०॥

  ऊर्ध्वमिति ॥ ऊर्ध्वं तिरश्चीनं तिर्यक् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खप्रत्ययः । अधश्च कीर्णैर्विसृतैर्ज्वाला एव सटाः केसराः। 'सटा जटाकेसरयोः' इति विश्वः । तैर्लङ्घितमेघपङ्क्तिरतिक्रान्तजलदालिरायस्तस्य लङ्घनोद्यतस्य सिंहस्येवाकृतिर्यस्य स जातवेदा अग्निः प्राण्यन्तं प्राणिनां संहारमिच्छन्निवोत्पपात ॥

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विस्तृतस्फुलिङ्गः।
वि[१]दीर्यमाणाश्मनिनाद[२]धीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥ ५१॥

  मित्वेति ॥ भाभिस्तेजोभिः सवितुर्मयूखान्किरणान् । 'किरणोस्रमयूखांशु-'इत्यमरः। भित्त्वेवाभिहत्येव विष्वक्समन्ताद्विसृताःस्फुलिङ्गायस्य सः। स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वमुत्प्रेक्षते। 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः। अकृशोऽतनुः कृशानुर्वह्निर्विदीर्यमाणस्य विदलतोऽश्मनो निनादमिव धीरमुद्धतं ध्वनिं वितन्वञ्जज्वाल ।

चयानिवांद्रीनिव तुङ्गशृङ्गान्क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानां ततान वह्निः पवनानुवृत्त्या ॥ ५२ ॥

  चयानिति ॥ वह्निः पवनानुवृत्त्या वायुवशेन चयानिव हिरण्मयान्प्राकारानिव । 'चयः समूहे प्राकारे' इति विश्वः । तुङ्गशृङ्गानन्द्रीनिव क्वचिद्धिरण्मयानीति 'दाण्डि- नायन--'इत्यादिना निपातनात्साधुः । पुराणि नगराणीव तथा किंशुकानां पलाश-- तरूणाम् । 'पलाशे किंशुकः पर्णः' इत्यमरः । महावनानीव । पुष्पितानीति शेषः । ततान वितस्तार । तदाकारेण जज्वालेत्यर्थः ॥

मुहुश्चलत्पल्लवलोहि[३]नीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जनश्यामरुचः पयोदाः ॥ ५३॥

  मुहुरिति ॥ सान्द्राञ्जनश्यामरुचो घनकज्जलश्यामरुचः पयोदा मुहुश्चलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताभिश्चलत्पल्लवलोहिनीभिः। 'वर्णानुदात्तात्तोपधात्तो नः' इति ङीप् । तकारस्य नकारः । शिखिनोऽग्नेरुच्चैरुन्नताभिः शिखाभिर्ज्वालाभिरवलीढाः । दग्धा इत्यर्थः । अतएव तलेष्वधोभाग्रेषु मुक्ताविशदा मौक्तिकधवला बभूवुः । जलसंशोषणादिति भावः । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः ॥


  1. 'विशीर्य' इति पाठ:
  2. 'भीमम्' इति पाठ:
  3. 'लोहिताभिः' इति पाठः