पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
षोडशः सर्गः।

  मनःशिलेति ॥ मनःशिला धातुविशेषस्तस्या भङ्गश्छेदस्तन्निभेन तत्सदृशेन भासां निकरेण कान्तिपुञ्जेन पश्चाद्भागे निरुद्ध्यमानमाव्रियमाणं व्यूढैर्विशालैरुरोभिर्वक्षोभिश्च । 'उरो वत्सश्च वक्षश्च' इत्यमरः । विनुद्यमानं प्रेर्यमाणं नभ: खगानां गरुडानां पुरः ससर्पेव ससारेव । उत्तरोत्तरदेशतिरोधानेन गच्छतां खगानामपूर्वोऽपि पुरोभागः सादृश्यात्पूर्ववदुपलभ्यमानतया नभस एव छेदनात्पुरः ससर्पेवेत्युत्प्रेक्षा ॥

दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हि[१]माचलः क्षीब इवाचकम्पे ॥ ४६॥

  दरीति॥जवानिलेनाघूर्णितानि भ्रमितानि सानुजालानि यस्य स हिमाचलः।आसवस्य रागो रक्तता तद्वत्ताम्राम् । गुणयोरेवोपमानोपमेयभावः । विकासि विकस्वरं रुक्मच्छदाः सुवर्णपक्षास्तार्क्ष्यास्तेषां धाम तेजो दरीभिर्मुखैरिव दरीमुखैः पीत्वा क्षीबो मत्त इवाचकम्प आचचाल । उपमाव्यापितेयमुत्प्रेक्षा ॥

प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभ [२] स्तलं गां च पिशङ्गयद्भिः।
अन्तर्हितार्कै: परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानाम् ॥४७॥

  प्रवृत्तेति ॥ नक्तं च दिवा च नक्तंदिवम् । 'अचतुर-' इत्यादिना सप्तम्यर्थवृत्त्यो- रप्यव्यव्योर्द्वन्द्वैकवद्भावनिपाते समासान्तः । लक्षणया त्वहोरात्रमात्रवाची । प्रवृत्तः प्रादुर्भूतो यो नक्तंदिवस्य संधिः संध्या तद्वद्दीप्तै: शोभितैर्नभस्तलं गां भुवं च पिशङ्गयद्भिः पिशङ्गीकुर्वद्भिरन्तर्हित आच्छादितोऽर्को यैस्तैः पतद्भिः पक्षिभिः परितः सर्वतो वनाना छायाः समाचिक्षिपिरे समाक्षिप्ताः । अन्तर्बहिश्च तेजःप्रवेशात्क्वाप्यन्तर्हिता इत्यर्थः ॥

स भोगिसंघः श[३]ममुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् ।
महाध्वरे विध्यपचारदोषः क[४]र्मान्तरेणेव महोदयेन ॥४८॥

  स इति ॥ स भोगिसंघः सर्पसमूह उग्रधाम्नां तेजस्विनां विनतासुतानां तार्क्ष्याणां सैन्येन महाध्वरे महाक्रतौ विध्यपचारदोषः कर्मस्खलनदोषो महोदयेन महासामर्थ्येनाथवा महता फलेन । तन्मूलेन प्रकृतक्रियासिद्धेरिति । कर्मान्तरेण प्रायश्चित्तेनेव शमं शान्तिं निन्ये प्रापितः ॥

साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः॥४९॥

  साफल्यमिति ॥ अस्त्रे सर्पास्त्रे । भाग्ये प्राम्भवीये शुभे कर्मणीव । रिपुपौरुषस्य रिपु-


  1. 'महाचल' इति पाठः
  2. 'नभःस्थलम्' इति पाठः
  3. 'क्षयम्' इति पाठः
  4. 'कार्यान्तरेण' इति पाठः