पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
किरातार्जुनीये

  प्रतप्तेति ॥प्राणहराणीक्षणानि येषां तेषां प्राणहरेक्षणानां दृष्टिविषाणां सर्पविशेषाणां लोचनेभ्यो नेत्रेभ्यः। प्रतप्तं यच्चामीकरं सुवर्णं तद्वद्भासुरेण । 'भञ्जभासमिदो घुरच्' इति घुरच्प्रत्ययः । प्रकाशेन तेजसा दिशा: पिशङ्ग्यन्त्यो ज्वाला महोल्का इव निश्चक्रमुर्निर्जग्मुः ॥

आक्षिप्तसंपातमपेतशोभमुद्वह्नि धूमाकुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥४१॥

  आक्षिप्तेति ॥ आक्षिप्तः प्रतिषिद्धः संपातः संचारो यस्मिंस्तत् । सिद्धानां पक्षिणां चेति शेषः । अपेता गता शोभा यस्मात्तदपेतशोभं गतश्रीकम् । उद्गतः प्रदीप्तो वह्निर्यस्मिंस्तदुद्वह्नि सर्वत उद्भूतदहनम् । धूमैराकुला व्याप्ता दिग्विभागा यस्य तत् । भोगिकुलैः सर्पकुलैर्वृतमावृतं नभः परोपरुद्धस्य शत्रुवेष्टितस्य पुरस्यावस्थामिवावस्थां दशां भेजे । उक्तरीत्या तत्साधर्म्यं प्राप्तमित्यर्थः । निदर्शनालंकारः ।।

तमाशु चक्षुःश्रवसां समूहं म[१]न्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ ४२ ॥

  तमिति ॥ पशूनां पतिः शिवस्तं चक्षुःश्रवसां सर्पाणां समूहं तार्क्ष्योदयकारणेन गरुडाविर्भावहेतुना मन्त्रेण नेता नायको नयेन नीत्या परेषामुपजापं परोपर्जापं पर:कृतं स्वमण्डलभेदमिव । 'भेदोपजापावुपधा' इत्यमरः । आशु निवारयामास ॥

प्रतिघ्नतीभिः कृ[२]तमीलितानि द्युलोकभाजामपि लोचनानि ।
गरुत्मतां सं[३]हतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥४३॥

  प्रतीति॥द्युलोकभाजामप्यनिमेषाणामपि कृतं मीलनं निमेषो येषां तानि लोचनानि दृष्टीः प्रतिघ्नतीभिः प्रतिबध्नतीभिः । हन्तेः शतरि ङीप् । गरुत्मतां तार्क्ष्याणां संहतिभिः समूहै: क्षणप्रकाशाभिर्विद्युद्भिरिव । तासां सौवर्णत्वादिति भावः । विहायोऽन्तरिक्षमवतेने व्यानशे ॥

ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः॥४४ ॥

  तत इति ॥ ततः सुपर्णव्रजानां तार्क्ष्यकुलानां पक्षेभ्यो जन्म यस्य स नानागति- र्विचित्रगतिर्वायुर्वनस्पतीनां वृक्षाणां गहनानि जरत्तृणानि जीर्णतृणानीव जवेन मण्डलयन्भ्रमयन्वियदन्तरिक्षं निनाय ।

मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासाम् ।
व्यूढेरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥४५॥


  1. 'अस्त्रेण' इति पाठः
  2. 'क्षण' इति पाठः
  3. 'संततिभि:' इति पाठः