पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
षोडशः सर्गः।

वोर्ध्वमुत्पपातेवेत्युत्प्रेक्षा। दिशः प्रसेदुः। सवितुर्मयूखैः स्फुटं स्पष्टं विसस्त्रे विस्तृतम्। भावे लिट् । दिनश्रीर्घस्रकान्तिः पुनर्दिनं समीयाय संजगाम । अत्र वैयधिकरण्येन गुणक्रिययोः समुञ्चयेन समुच्चयोऽलंकारः। तस्य च समुन्नमनोत्प्रेक्षयैवशब्दवाच्यया- नुप्रवेशलक्षणः संकरः। दिक्प्रसादो गुणः । शेषाः क्रियाः ॥

महास्त्रदुर्गे शिथिलप्रययत्नं दिग्वारणेनेव परेण रु[१]ग्णे।
भु[२]जङ्गपाशान्भुजवीर्यशाली प्र[३]बन्धनाय प्रजिघाय जिष्णुः ॥३६॥

महास्रेति ॥ भुजवीर्यशाली जिष्णुरर्जुनो महास्त्रं प्रस्वापनास्त्रं तद्दुर्गमिव तस्सिन्महास्त्रदुर्गे दिग्वारणेन दिग्गजेनेव परेण शत्रुणा शिथिलप्रयत्नमल्पप्रयासं यथा तथा रुग्णे भग्ने सति।'रुजो भङ्गे'। कर्मणि क्तः । 'ओदितश्च' इति निष्ठांतकारस्य नत्वम्। प्रबन्धनाय प्रकर्षेण बन्धनाय भुजङ्गा एव पाशास्तान्प्रजिघाय प्रहितवान् ॥

जिह्वाशतान्युल्लसयन्त्य[४]जस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं वि[५]वव्रे ॥३७॥

जिह्वेति ॥ लसन्तस्तडिल्लोला विद्युच्चञ्चला विषानला विषाग्नयो येषु तानि जिह्वाश- तान्यजस्रमुल्लसयन्ती चलयन्ती भुजगेन्द्रसेना त्रासाद्भयान्नभश्चरैर्निरस्तां त्यक्तां तेषां नभश्चराणां पदवीं मार्गं विवव्रे विशेषेण रुरोध ॥

दिङ्नागहस्ताकृतिमुद्वहद्भिर्भौगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥३८॥

दिङ्नागेति ॥ दिङ्नागहस्ताकृतिमुद्वहद्भिर्दिक्करिकराकारैस्तथा प्रशस्तानि समी- चीनान्यसितरत्नानीन्द्रनीलमणयस्तद्वन्नीलौंर्भागैः कार्यरुपलक्षिता सर्पावलिरुल्लसन्ती प्रक्षुभ्यन्ती नभ एवार्णवस्तस्य तरङ्गमालेव रराज । रूपकोत्थापितेयमुत्प्रेक्षा ॥

निःश्वासधूमैः स्थगितांशुजा[६]लं फणावतामुत्फणमण्डलानाम् ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥३९॥

निःश्वासेति । उष्णरश्मिरस्तं गच्छन्निवोन्नमितानि फणामण्डलानि येषां तेषां फणावतां सर्पाणां निःश्वासेषु ये धूमास्तैः स्थगितमाच्छादितमंशुजालं यस्य तत्तथोक्तम् । अतएव विलोचनानां सुखं सुखकरं वपुरभ्युवाह ॥

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गन्यन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इवलोच[७]नेभ्यः ॥४०॥


  1. 'भग्ने'इति पाठः
  2. 'मुजङ्गमास्त्रम्' इति पाठः
  3. 'निबन्धनाय' इति पाठः
  4. 'असक्तम्' इति पाठः
  5. 'विसस्रे' इति पाठः
  6. 'जालः' इति पाठः
  7. 'लोचनस्य' इति पाठः