अंसेति॥ अभिन्नधैर्यास्तदानीमप्यक्षतधैर्याः केचिदंसस्थलैरंसभागैः सह संश्लेषवतां संगच्छतां तरूणां स्कन्धेषु प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागा गजा इव स्रस्तकराः स्रस्तहस्ताः सन्तः सलीलं निषेत्दुर्निषण्णा ॥
तिरोहितेन्दोरथ शंभुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । |
तिरोहितेति ॥ अथ तिरोहितेन्दोः किरातमायया छन्नचन्द्राच्छंभुमूर्घ्न: सकाशात्। सुमेरुशृङ्गादर्कसंबन्धि बिम्वमिव । तपसां निवासैस्तापसैः प्रणम्यमानमभिवन्द्यमानं पिशङ्गं तेज उच्चैरूर्ध्वमुदियाय प्रकटीबभूव । तच्च न चान्द्रमिति भावः ॥
छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् । |
छायामिति ॥ इन्दुमौलेर्द्युतिः कान्तिः । तत्त्वस्य संवित्तिस्तत्त्वज्ञानमपविद्यामिव तां तमोययीं छायां निद्रां विनिर्धूय निरस्य गणेभ्य आलोकं वस्तुप्रकाशमभ्यादिशती चितरन्ती विकासं विस्तारं ययौ ॥
त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या । |
त्विषामिति ॥ सर्वतः पाटलिताः पाटलीकृता अम्बुवाहा यया सा तथोक्ता त्विषां तेजसां ततिः।पूर्वां सरतीति पूर्वसरी।'पूर्वे कर्तरि' इति टप्रत्यये ङीप्।'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पूर्वाशब्दस्य पुंवद्भावः । संध्या प्रातःसंध्येवोल्लसन्ती प्रसरन्ती तेषां गणानां लोचनपङ्कजानि द्रुतं विनिद्रतां विकासं निनाय ॥
पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । |
पृथगिति । अस्त्रविरामेण प्रस्वापनास्त्रोपरमेण बुद्धा विनिद्गास्ते गणा बलाहकानां वितानेन मेघपटलेन मुक्ता अत एव रम्या दिग्विभागा दिगन्ता ज्योतींषि नक्षत्राणीव। ज्योतिस्ताराग्निभाज्वालादृक्प्रकाशरमात्मसु'इति वैजयन्ती। पृथग्विधानि नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे । जगृहुरित्यर्थः ॥
द्यौरुन्ननामेव दिशः प्रसेदुः स्फु[३]टं विसस्रे सवितुर्मयूखैः। |
द्यौरिति ॥ तदा यामवत्यां रात्रौ क्षयं गतायां विभातायामिव द्यौरन्तरिक्षमुन्ननामे-